उद्योगपर्व
अध्यायः ८५
वैशंपायन उवाच।
तदा दूतैः समाज्ञाय आयान्तं मधुसूदनम्।
धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम् ।।
द्रोणं च सञ्जयं चैव विदुरं च महामतिम् ।
दुर्योदनं सहामात्यं हृष्टरोमाऽब्रवीदिदम् ।।
अद्भुतं महादाश्चर्यं श्रूयते कुरुनन्दन ।
स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहेगृहे ।।
सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः ।
पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च ।।
उपायास्यति दाशार्हः पाण्डवार्थे पराक्रमी ।
स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः ।।
तस्मिन्हि यात्रा लोकस्य भूतानामीश्वरोऽहि सः।
तस्मिन्धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे ।।
स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः ।
पूजितो हि सुखाय स्यादसुखः स्यादपूजितः ।।
स चेत्तुप्यति दाशार्ह उपचरैररिन्दमः ।
कृष्णात्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु ।।
तस्य पूजार्थमद्यैव संविधस्त्व परन्तप ।
सभाः पथि विधीयन्तां सर्वकामसमन्विताः ।।
यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै ।
तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे ।।
वैशंपायन उवाच।
ततो भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम्।
ऊचुःक परममित्येवं पूजयन्तोऽस्य तद्वचः ।।
तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा।
सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे ।।
ततो देशेषु देशेषु रमणीयेषु भागशः ।
सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः ।।
आसनानि विचित्राणि युतानि विविधैर्गुणैः ।
स्त्रियो गन्धानलङ्कानारान्सूक्ष्माणि वसनानि च ।।
गुणवन्त्यन्नपानानि भोज्यानि विविधानि च।
माल्यानि च सुगन्धीनि तानि राजा ददौ ततः ।।
विशेवतश्च वासार्थं सभां ग्रामे वृकस्थले।
विदधे कौरवो राजा बहुरत्नां मनोरमाम् ।।
एतद्विधाय वै सर्वं देवार्हमतिमानुषम् ।
आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा ।।
ताः सभाः केशवः सर्वा रत्नानि विविधानि च।
असमीक्ष्यैव दाशार्ह उपायात्कुरुसद्म तत् ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि पञ्चशीतितमोऽध्यायः ।।