उद्योगपर्व
अध्यायः ८६
धृतराष्ट्र उवाच।
उपप्लाव्यादिह क्षत्तरुपायातो जनार्दनः।
वृकस्थले निवसति स च प्रातरिहैष्यति ।।
आहुकानामधिपतिः पुरोगः सर्वसात्वताम्।
महामना महावीर्यो महासत्वो जनार्दनः ।।
स्फीतस्य वृष्णिराष्ट्रस्य भर्ता गोप्ता च माधवः ।
त्रयाणामपि लोकानां भगवान्प्रपितामहः ।।
वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते।
आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः ।।
तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने ।
प्रत्यक्षं तव धर्मज्ञ तां मे कथयतः श्रुणु ।।
एकवर्णैः सुक्लृप्ताङ्गैर्बाह्लिजातैर्हयोत्तमैः।
चतुर्यक्तान्रथांस्तस्मै रौक्मान्दास्यामि षोडश ।।
नित्यप्रभिन्नान्मातङ्गानीषादन्तान्प्रहारिणः।
अष्टानुचरमेकैकमष्टौ दास्यामि कौरव ।।
दासीनामप्रजातानां शुभानां रुक्मवर्चसाम् ।
शतमस्मै प्रदास्यामि दासानामपि तावताम् ।।
आविकं च सुखस्पर्शं पार्वतीयैरुपाहृतम् ।
तदप्यस्मै प्रदास्यामि सहस्त्राणि दाशाष्ट च ।।
अजिनानां सहस्राणि चीनदेशोद्भवानि च।
तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः ।।
दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः ।
तमप्यस्मै प्रदास्यामि तमर्हति हि केशवः ।।
एकेनाभिपतत्यह्ना योजनानि चतुर्दश ।
यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम् ।।
यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते ।
ततोष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा ।।
मम पुत्राश्च पौत्रश्च सर्वे दुर्योधनादृते।
प्रत्युद्यास्यन्ति दाशार्हं रथैर्मृष्टैः स्वलङ्कृताः ।।
स्वलङ्कृताश्च कल्याण्यः पादैरेव सहस्रशः।
वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम् ।।
नगरादपि याः काश्चिद्गमिष्यन्ति जनार्दनम् ।
द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः ।।
सस्त्रीपुरुषबालं च नगरं मधुसूदनम् ।
उदीक्षतां महात्मानं भानुमन्तमिव प्रजाः ।।
महाध्वजपताकाश्च क्रियन्तां सर्वतो दिशः।
जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात् ।।
दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम् ।
तदद्य क्रियतां क्षिप्रं सुसंमृष्टमलङ्कृतम् ।।
एतद्धि रुचिराकारैः प्रासादैरुपशोभितम् ।
शिवं च रमणीयं च सर्वर्तु सुमहाधनम् ।।
सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च।
यद्यदर्हति वार्ष्णेयस्तत्तद्देयमसंशयम् ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वमि षडशीतितमोऽध्यायः ।।