उद्योगपर्व

अध्यायः ८४

Udyoga Parva (Sanskrit) · Adhyaya 84
अक्षर का आकार

जनमेजय उवाच।

कथं प्रयातो दाशार्हो महात्मा मधुसूदनः।
कानि वा व्रजतस्तस्य निमित्तानि महौजसः ।।

वैशंपायन उवाच।

तस्य प्रयाणे यान्यसन्निमित्तानि महात्मनः।
तानि मे श्रृणु सर्वाणि दैवान्यौत्पातिकानि च ।।

अनभ्रेऽशनिनिर्घोषः सविद्युत्समजायत ।
अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम् ।।

प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसप्तमाः ।
विपरिता दिशः सर्वा न प्राज्ञायत किंचन ।।

प्राज्वलन्नग्नयो राजन्पृथिवी समकम्पत ।
उदपानाश्च कुम्भाश्च प्रासिञ्चञ्शतशो जलम् ।।

तमःसंवृतमप्यासीत्सर्वं जगदिदं तथा।
न दिशो नादिशो राजन्प्रज्ञायन्तेस्म रेणुना ।।

प्रादुरासीन्महाञ्छब्दः खेशरीरमदृश्यत ।
सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत् ।।

प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः ।
आरुजन्गणशो वृक्षान्परुषोऽशनिनिःस्वनः ।।

यत्रयत्र च वार्ष्णेयो वर्तते पथि भारत ।
तत्रतत्र सुखो वायुः सर्वं चासीत्प्रदक्षिणम् ।।

ववर्ष पुष्पवर्षं च कमलानि च भूरिशः ।
समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः ।।

संस्तुतो ब्राह्मणैर्गीर्भिस्तत्रतत्र सहस्रशः ।
अर्च्यते मधुपर्कैश्च वसुभिश्च वसुप्रदः ।।

तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः ।
स्त्रियः पथि समागम्य सर्वभूतहिते रतम् ।।

स शालिभवनं रम्यं सर्वसस्यसमाचितम्।
सुख परमधर्मिष्ठमभ्यगाद्भरतर्षभ ।।

पश्यन्बहुपशून्ग्रामान्रम्यान्हृदयतोपणान्।
पुराणि च व्यतिकामन्राष्ट्राणि विविधानि च ।।

नित्यं हृष्टाः सुमनसो भारतैरभिरक्षिताः।
नोद्विग्नाः परचक्राणां व्यसनानामकोविदाः ।।

उपप्लाव्यादथागम्य जनाः पुरनिवासिनः।
यथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया ।।

ते तु सर्वे समायान्तमग्निमिद्धमिव प्रभुम् ।
अर्चयामासुरर्चार्हं देशातिथिमुपस्थितम् ।।

वृकस्थलं समासाद्य केशवः परवीरहा ।
प्रकीर्णरश्मावादित्ये व्योम्नि वै लोहितायति ।।

` ततो ह्यनुचरान्सर्वानुवाच मधुसूदनः।
युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे वयम् ।।

तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः ।
क्षणेन चान्नपानानि ररावन्ति समार्जयन् ।।'

अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि ।
रथमोचनमादिश्य सन्ध्यामुपविवेश ह ।।

दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः।
मुमोच सर्वं योक्तादि मुक्त्वा चैतानवासृजत् ।।

तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप ।
आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः ।।

तेऽभिगम्य महात्मानं हृषीकेशमरिन्दमम्।
पूजां चक्रुर्यथान्यायमाशीर्मङ्गलसंयुताम् ।।

ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम्।
न्यवेदयन्त वेश्मानि गुणवन्ति महात्मने ।।

तान्प्रभुः कृतमित्युक्ता सत्कृत्य च यथार्हतः ।
अभ्येत्य चैषां वेश्मानि पुनरायात्सहैव तैः ।।

सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः ।
भुक्ता च सह तैः सर्वैरवसत्तां क्षपां सुखम् ।।

।। इति श्रीमन्महाभारते उद्योगपर्वमि
भगवद्यानपर्वणि चतुरशीतितमोऽध्यायः ।।