उद्योगपर्व
अध्यायः ८३
युधिष्ठिर उवाच।
या सा बाल्यात्प्रभृत्यस्मान्पर्यवर्धयताबला।
उपवासतपःशीला सदा स्वस्त्ययने रता ।।
देवतातिथिपूजासु गुरुशुश्रूषणे रता।
वत्सला प्रियपुत्रा च माताऽस्माकं जनार्दन ।।
सुयोधनभयाद्या नो त्रायतामित्रकर्शन ।
महतो मृत्युसंबाधुद्दुस्तरान्नौरिवार्णवात् ।।
अस्मत्कृते च सततं यया दुःखानि माधव ।
अनुभूतान्यदुःखार्हां तां स्म पृच्छेरनामयम् ।।
भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम् ।
अभिवाद्य स्वजेथास्त्वं पाण्डवान्परिकीर्तयन् ।।
ऊढात्प्रभृति दुःखानि श्वशुराणामरिन्दम।
निराकाराऽतदर्हा च पश्यन्ती दुःखमश्रुते ।।
अपि जातु स कालः स्यात्कृष्ण दुःखविपर्ययः ।
यदहं मातरं क्लिष्टां सुखं दद्यामरिन्दम ।।
प्रव्रजन्तोऽनुधावन्तीं कृपणां पुत्रगृद्धिनीम् ।
रुदतीमपहायैनामगच्छाम वयं वनम् ।।
सा नूनं म्रियते दुःखैः सा चेज्जीवति केशव।
तथा पुत्राधिभिर्गाढमार्तामर्चय सत्कृत ।।
अभिवाद्याऽथ सा कृष्ण त्वया मद्वचवाद्विभो ।
धृतराष्ट्रश्च कौरव्यो राजानश्च वयोधिकाः ।।
भीष्मं द्रोणं कृपं चैव महाराजं च वाह्लिकम्।
द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्पृथक् ।।
` यथावयो यथास्थानं प्रपद्यस्व जनार्दन।'
विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम्।
अगाधबुद्धिं मर्मज्ञं स्वजेथा मधुसूदन ।।
वैशंपायन उवाच।
इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः।
अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम् ।।
व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम् ।
अब्रवीत्परवीरघ्रं दाशार्हमपराजितम् ।।
यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये ।
अर्धराज्यस्य गोविद विदितं सर्वराजसु ।।
तच्चेद्दद्यादखङ्गेन सत्कृत्यानवमत्य च।
प्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात् ।।
अतश्चेदन्यथाकर्ता धार्तराष्ट्रोऽनुपायवित्।
अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन ।।
वैशंपायन उवाच।
एवमुक्ते पाण्डवेन समहृष्यद्वृकोदरः।
मुहुर्मुहुः क्रोधवशात्प्रावेपत च पाण्डवः ।।
वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रजन्।
धनञ्जयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम् ।।
तस्य तं निनदं श्रुत्वा संप्रावेपन्त धन्विनः ।
वाहनानि च सर्वामि शकृन्मूत्रे प्रमुस्रुवुः ।।
इत्युक्त्वा केशवं तत्र तथा चोह्वा विनिश्चयम्।
अनुज्ञातो निववृते परिष्वज्य जनार्दनम् ।।
तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः।
तूर्णमभ्यगमद्धृष्टः शैब्यसुग्रीववाहनः ।।
ते हया वासुदेवस्य दारुकेण प्रचोदिताः ।
पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम् ।।
अथापश्यन्महाबाहुर्ऋषीनध्वनि केशवः ।
ब्राह्या श्रिया दीप्यमानान्स्थितानुभयतः पथि ।।
सोऽवतीर्य रथात्तूर्णमभिवाद्य जनार्दनः।
यथावृत्तानृषीन्सर्वानभ्यभाषत पूजयन्।।
कच्चिल्लोकेषु कुशलं कच्चिद्धर्मः स्वनुष्ठितः ।
ब्राह्मणानां त्रयो वर्णाः कच्चित्तिष्ठन्ति शासने ।
` पितृदेवातिथिभ्यश्च कच्चित्पूता स्वनुष्ठिताः ।।'
तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः।
भगवन्तः क्व संसिद्धाः कोऽवधिर्भवतामिह ।।
किं वा कार्यं भगवतामहं किं करवाणि यः ।
केनार्थेनोपप्तंप्राप्ता भगवन्तो महीतलम् ।।
` एवमुक्ताः केशवेन मुनयः शंसितव्रताः ।
नारदप्रमुखाः सर्वे प्रत्यनन्दन्त केशवम् ।।
अधश्शिराः सर्पमाली महर्षिः स हि देवलः ।
अर्वावसुः सुजानुश्च मैत्रेयः शुनको बली
बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनस्तथा।
आपोदधौम्यो धौम्यश्च आणिमाण्डव्यकौशिकौ ।।
दामोष्णीषस्त्रिषवणः पर्णादो घटजानुकः।
मौञ्जायनो वायुभक्षः पाराशर्योऽथ शालिकः ।।
शीलवानशनिर्धाता शून्यपालोऽकृतव्रणः।
श्वेतकेतुः कहोलश्च रामश्चैव महातपाः ।।'
तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम्।
परिष्वज्य च गोविन्दं सुरासुरपतेः सखा ।।
देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः ।
राजर्षयश्च दाशार्ह मानयन्ति तपस्विनः ।।
दैवासुरस्य द्रुष्टारः पुराणस्य महामते।
समेत पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः।
सभासदश्च राजानस्त्वां च सत्यं जनार्दनम् ।।
एतन्महत्प्रेक्षणीयं द्रुष्टुमिच्छाम केशव ।।
धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव।
त्वयोच्यमानाः कुरुषु राजमध्ये परन्तप ।।
` सभायां मधुरा वाचः शुश्रूषन्तस्त्वयेरिताः ।
कुरूणां प्रतिवाचश्च श्रोतुमिच्छाम माधव ।।'
भीष्मद्रोणादयश्चैव विदुरश्च महामतिः ।
त्वं च यादवशार्दूल सभायां वै समेष्यथ ।।
तव वाक्यानि दिव्यानि तथा तेषां च माधव।
श्रोतुमिच्छाम गोविन्द सत्यानि च हितानि च।
आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम् ।।
याह्यविघ्नेन वै वीर द्रक्ष्यामस्त्वां सभागतम्।
आसीनमासने दिव्ये बलतेजःसमाहितम् ।।
वैशंपायन उवाच।
प्रयान्तं देवकीपुत्रं परवीररुजो दश।
महारथा महाबाहुमन्वयुः शस्त्रपाणयः ।।
पदातीनां सहस्रं च सादिनां च परन्तप।
भोज्यं च विपुलं राजन्प्रेष्याश्च शतशोपरे ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि त्र्यशीतितमोऽध्यायः ।।