उद्योगपर्व

अध्यायः ८२

Udyoga Parva (Sanskrit) · Adhyaya 82
अक्षर का आकार

अर्जुन उवाच।

कुरूणामद्य सर्वेषां भवान्सुहृदनुत्तमः।
संबन्धी दयितो नित्यमुभयोः पक्षयोरपि ।।

पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम्।
समर्थः प्रशमं चैव कर्तुमर्हसि केशव ।।

त्वमित्तः पुण्डरीकाक्ष सुयोधनममर्षणम् ।
शान्त्यर्थं भ्रातरं ब्रूया यत्तद्वाच्यममित्रहन् ।।

त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम्।
हितं नादास्यते बालो दिष्टस्य वशमेष्यति ।।

श्रीभगवानुवाच।

धर्म्यमस्मद्धितं चैव कुरूणां यदनामयम्।
एष यास्यामि राजानं धृतराष्ट्रमभीप्सया ।।

वैशंपायन उवाच।

ततो व्यपेते तमसि सूर्ये विमल उद्गते ।
मैत्रे मुहूर्ते संप्राप्ते मद्वर्चिषि दिवाकरे ।।

कौमुदे मासि रेवत्यां शरदन्ते हिमागमे ।
स्फीतसस्यसुखे काले कल्यः सत्ववतां वरः ।।

मङ्गल्याः पुण्यनिर्घोषा वाचः श्रृण्वंश्च सूनृताः ।
ब्राह्मणानां प्रतीतानामृषीणामिव वासवः ।।

कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिरलङ्कृतः ।
उपतस्थे विवस्वन्तं पावकं च जनार्दनः ।।

ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च।
अग्निं प्रदक्षिणं कृत्वा पश्यन्कल्याणमग्रतः ।।

तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः।
शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम् ।।

रथ आरोप्यतां शङ्खश्चक्रं च गदया सह।
उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च ।।

दुर्योधनश्च दुष्टात्मा कर्णश्च सहसौबलः ।
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा ।।

ततस्तन्मतमाज्ञाय केशवस्य पुनःसराः ।
प्रसस्त्नुर्योजयिष्यन्तो रथं चक्रगदाभृतः ।।

तं दीप्तमिव कालाग्निमाकाशगमिवाशुगम् ।
सूर्यचन्द्रप्रकाशाभ्यां चक्राभ्यां समलङ्कृतम्।।

अर्धचन्द्रैश्च चन्द्रैश्च मत्स्यैः समृगपक्षिभिः ।
पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः ।।

तरुणादित्यसङ्काशं बृहन्तं चारुदर्शनम् ।
मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम् ।।

सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम्।
यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम् ।।

वाजिभिः शैब्यसुग्रीवमेधपुष्पबलाहकैः ।
स्नातैः संपादयामासुः संपन्नैः सर्वसंपदा ।।

महिमानं तु कृष्णस्य भूय एवाभिवर्धयन्।
सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः ।।

तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम् ।
आरुरोह रथं सौरिर्विमानमिव कामगम् ।।

ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः।
पृथिवीं चान्तरिक्षं च रथघोषेण नादयन् ।।

व्यपोढाभ्रस्ततः कालः क्षणेन समपद्यत।
शिवश्चानुववौ वायुः प्रशान्तमभवद्रजः ।।

प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः।
प्रयाणे वासुदेवस्य बभूवुरनुयायिनः ।।

मङ्गल्यार्थप्रदैः शब्दैरन्ववर्तन्त सर्वशः।
सारसाः शतपत्राश्च हंसाश्च मधुसूदनम् ।।

मन्त्राहुतिमहाहोमैर्हूयमानश्च पावकः ।
प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत ।।

वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः।
शुकनारदवाल्मीका मरुत्तः कुशिको भृगुः ।।

देवब्रह्मर्षयश्चैव कृष्णं यदुसुखावहम्।
प्रदक्षिणमवर्तन्त सहिता वासवानुजम् ।।

एवमेतैर्महाभागैर्महर्षिगणसाधुभिः ।
पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति ।।

` देवताभ्यो नमस्कृत्य ब्राह्मणान्स्वस्ति वाच्य च।
प्रययौ पुण्डरीकाक्षः सात्यकेन सहाच्युतः ।।

तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरः ।
भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ ।।

चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः ।
द्रुपदः काशिराजश्च शिखण्डी च महारथः ।।

धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह।
संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम् ।।

ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः।
राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा ।।

यो वै न कामान्न भयान्न लोभान्नार्थकारणात्।
अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः ।।

धर्मज्ञो धृतिमान्प्राज्ञः सर्वभूतेषु केशवः ।
ईश्वरः सर्वभूतानां देवदेवः सनातनः ।।

तं सर्वगुणसंपन्नं श्रीवत्सकृतलक्षणम्।
संरिष्वज्य कौन्तेयः सन्देष्टुमुपचक्रमे ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि द्व्यशीतितमोऽध्यायः ।।