उद्योगपर्व
अध्यायः ७९
नकुल उवाच।
उक्तं बहुविधं वाक्यं धर्मराजेन माधव।
धर्मज्ञेन वदान्येन श्रुतं चैव हि तत्त्वया ।।
मतमाज्ञाय राज्ञश्च भीमसेनेन माधव ।
संशमो बाहुवीर्य च ख्यापितं माधवात्मनः ।।
तथैव फाल्गुनेनापि यदुक्तं तत्त्वया श्रुतम् ।
आत्मनश्च मतं वीर कथितं भवताऽसकृत् ।।
सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान्।
यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम ।।
तस्मिंरतस्मिन्निमित्ते हि मतं भवति केशव ।
प्राप्तकालं मनुष्येण क्षमं कार्यमरिन्दम ।।
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा ।
अनित्यमतयो लोके नराः पुरुषसत्तम ।।
अन्यथाबुद्धयो ह्यासन्नस्मासु वनवासिषु।
अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा ।।
अस्माकमपि वार्ष्णेय वने विचरतां तदा।
न तथा प्रणयो राज्ये यथा संप्रति वर्तते ।।
निवृत्तवनवासान्नः श्रुत्वा वीर समागताः ।
अक्षौहिण्यो हि सप्ते मास्त्वत्प्रसादाज्जनार्दन ।।
इमान्हि पुरुषव्याघ्रानचिन्त्यबलपौरुषात्।
आत्तशस्त्रान्रणे दृष्ट्वा न व्यथेदिह कः पुमान् ।।
स भवान्कुरुमध्ये तं सान्त्वपूर्वं भयोत्तरम्।
ब्रूयाद्वाक्यं यथा मन्दो न व्यथेत सुयोधनः ।।
युधिष्ठिरं भीमसेनं बीभत्सुं चापराचितम् ।
सहदेवं च मां चैव त्वां च रामं च केशव।।
सात्यकिं च महावीर्यं विराटं च महात्मजम्।
द्रुपदं च महामात्यं धृष्टद्युम्नं च माधव।।
काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम् ।
मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि ।।
स भवान्गमनादेव साधयिष्यत्यसंशयम्।
इष्टमर्थं महाबाहो धर्मराजस्य केवलम्।।
विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः ।
श्रेयः समर्था विज्ञातुमुच्यमानास्त्वयाऽनघ ।।
ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम् ।
तं च पापसमाचारं सहामात्यं सुयोधनम् ।।
श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन ।
कमिवार्थं निवर्तन्तं स्थापयेतां न वर्त्मनि ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि एकोनाशीतितमोऽध्यायः ।।