उद्योगपर्व
अध्यायः ७८
श्रीभगवानुवाच।
एवमेतन्महाबाहो यथा वदसि पाण्डव।
पाण्डवानां कुरूणां च प्रतिपत्स्ये निरामयम्।
सर्वं त्विदं ममायत्तं बीभत्सो कर्मणोर्द्वयोः ।।
क्षेत्रं हि रसवच्छुद्धं कर्मणैवोपपादितम्।
ऋते वर्षान्न कौन्तेय जातु निर्वर्तयेत्फलम् ।।
तत्र वै पौरुषं ब्रूयुरासेकं यत्र कारितम्।
तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम्।।
तदिदं निश्चित्तं बुद्ध्या पूर्वैरपि महात्मभिः ।
दैवे च मानुषे चैव संयुक्तं लोककारणम् ।।
अहं हि तत्करिष्यामि परं पुरुषकारतः ।
देवं तु न मया शक्यं कर्म कर्तुं कथंचन ।।
स हि धर्मं च लोकं च त्यक्त्वा चरति दुर्मतिः।
न हि सन्तप्यते तेन तथारूपेण कर्मणा ।।
तथापि बुद्धिं पापिष्ठां वर्धयन्त्यस्य मन्त्रिणः ।
शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा ।।
स हि त्यागेन राज्यस्य न शमं समुपैष्यति।
अन्तरेण वधं पार्थ सानुबन्धः सुयोधनः ।।
न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट् ।
याच्यमानश्च राज्यं स न प्रजास्यति दुर्मतिः ।।
न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशातनम् ।
उक्तं प्रयोजनं यत्तु धर्मराजेन भारत ।।
तथा पापस्तु तत्सर्वं न करिष्यति कौरवः ।
तस्मिंश्चाक्रियमाणेऽसौ लोके वध्यो भविष्यति ।।
मम चापि स वध्यो हि जगतश्चापि भारत ।
तेन कौमारके यूयं सर्वे विप्रकृताः सदा ।।
विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना।
न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे ।।
असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः ।
न मया तद्गृहीतं च पापं तस्य चिकीर्षेतम् ।।
जानासि हि महाबाहो त्वमप्यस्य परं मतम्।
प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि ।।
संजानंस्तस्य चात्मानं मम चैव परं मतम्।
अजानन्निव मां कस्मादर्जुनाद्याभिशङ्कसे ।।
यच्चापि परमं दिव्यं तच्चाप्यनुगतं त्वया।
विधानं विहितं पार्थ कथं शर्म भवेत्परैः ।।
यत्तु वाचा मया शक्यं कर्मणा वाऽपि पाण्डव ।
करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः ।।
कथं गोहरणे ह्युक्तो नैतच्छर्म तथा हितम् ।
याच्यमानो हि भीष्मेण संवत्सरगतेऽध्वनि ।।
तदैव ते पराभूता यदा सङ्कल्पितास्त्वया।
लवशः क्षणशश्चापि न च तुष्टः सुयोधनः ।।
सर्वथा तु मया कार्यं धर्मराजस्य शासनम् ।
विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि अष्टसप्ततितमोऽध्यायः ।।