उद्योगपर्व

अध्यायः ८०

Udyoga Parva (Sanskrit) · Adhyaya 80
अक्षर का आकार

सहदेव उवाच।

यदेतत्कथितं राज्ञा धर्म एष सनातनः।
यथा च युद्धमेव स्यात्तथा कार्यमरिन्दम ।।

यदि प्रसममिच्छेयुः कुरवः पाण्डवैः सह।
तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः ।।

कथं नु दृष्ट्वा पाञ्चालीं तथा कृष्ण सभागताम्।
अवधेन प्रशाम्येत मम मन्युः सुयोधने ।।

यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः ।
धर्ममुत्सृज्य तेनाहं योद्धुमिच्छामि संयुगे ।।

ब्रूहि मद्वचनं कृष्ण सुयोधनमपण्डितम्।
कृच्छ्रे वने वा वस्तव्यं पुरे वा नागसाह्वये ।।

सात्यकिरुवाच।

सत्यमाह महाबाहो सहदेवो महामतिः।
दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत् ।।

न जानासि यथा दृष्ट्वा चीराजिनधरान्वने।
तवापि मन्युरुद्धूतो दुःखितान्प्रेक्ष्य पाण्डवान् ।।

तस्मान्माद्रीसुतः शूरो यदाह रणकर्कशः।
वचनं सर्वयोधानां तन्मतं पुरुषोत्तम ।।

वैशंपायन उवाच।

एवं वदि वाक्यं तु युयुधाने महामतौ।
सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः ।।

सर्वे हि सर्वशो वीरास्तद्वचः प्रत्यपूजयन्।
साधुसाध्विति शैनेयं हर्षयन्तो युयुत्सवः ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि अशीतितमोऽध्यायः ।।