उद्योगपर्व
अध्यायः ७७
अर्जुन उवाच।
उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन ।
तव वाक्यं तु मे श्रुत्वा प्रतिभाति परन्तप ।।
नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो ।
लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात् ।।
अफलं मन्यसे वाऽपि पुरुषस्य पराक्रमम् ।
न चान्तरेण कर्माणि पौरुषेण बलोदयः ।।
तदिदं भाषितं वाक्यं तथाचन तथैव तत्।
न चैतदेवं द्रष्टव्यमसाध्यमपि किंचन ।।
किं चैतन्मन्यसे कृच्छ्रमस्माकमवसादकम्।
कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः ।।
संपाद्यमानं सम्यक्व स्यात्कर्म सफलं प्रभो।
स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः ।।
पाण्डवानां कुरूणां च भवान्नः प्रथमः सुहृत्।
सुराणामसुराणां च यथा वीर प्रजापतिः ।।
कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम् ।
अस्मद्धितमनुष्ठानं मन्ये तव न दुष्करम् ।।
एवं च कार्यतामेति कार्यं तव जनार्दन ।
गमनादेवमेव त्वं करिष्यसि जनार्दन ।।
चिकीर्षितमथान्यत्ते तस्मिन्वीर दुरात्मानि ।
भविष्यति च तत्सर्वं यथा तव चिकीर्षितम् ।।
शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम् ।
विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः ।।
न स नार्हति दुष्टात्मा वधं ससुतबान्धवः।
येन धर्मसुते दृष्टा न सा श्रीरुपमर्षिता ।।
यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन।
उपायेन नृशंसेन हृता दुर्द्यूतदेविना ।।
कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः ।
समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते ।।
अधर्मेण जितान्दृष्ट्वा वने प्रवृजितांस्तथा।
वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः ।।
न चैतदद्भुतं कृष्ण मित्रार्थे यच्चिकीर्षसि।
क्रिया कथंच मुख्या स्यान्मृदुना चेतरेण वा ।।
अथवा मन्यसे ज्यायान्वधस्तेषामनन्तरम् ।
तदेव क्रियतामाशु न विचार्यमतस्त्वया ।।
जानासि हि यथैतेन द्रौपदी पापबुद्धिना ।
परिक्लिष्टा सभामध्ये तच्च तस्योपमर्षितम् ।।
स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव।
न मे सञ्जायते बुद्धिर्बीजमुप्तमिवोषरे ।।
तस्माद्यन्मन्यसे युक्तं पाण्डवानां हितं च यत्।
तथाऽऽशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम् ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि सप्तसप्ततितमोऽध्यायः ।।