उद्योगपर्व

अध्यायः ७६

Udyoga Parva (Sanskrit) · Adhyaya 76
अक्षर का आकार

श्रीभगवानुवाच।

भावं जिज्ञासमानोऽहं प्रणयादिदमब्रवम् ।
न चाक्षेपान्न पाण्डित्यान्न क्रोधान्न विवक्षया ।।

वेदाहं तव माहात्म्यसुत ते वेद यद्बलम्।
उत ते वेद कर्माणि न त्वां परिभवाम्यहम् ।।

यथा चात्मनि कल्याणं संभावयसि पाण्डव ।
सहस्रगुणमप्येतत्त्वयि संभावयाम्यहम् ।।

यादृशे च कुले जन्म सर्वराजाभिपूजिते ।
बन्धुभिश्च सुहृद्भिश्च भीम त्वमसि तादृशः ।।

जिज्ञासन्तो हि धर्मस्य सन्दिग्धस्य वृकोदर ।
पर्यायं नाध्यवस्यन्ति देवमानुषयोर्जनाः ।।

स एव हेतुर्भूत्वा हि पुरुषस्यार्थसिद्धिषु।
विनाशेऽपि स एवास्य सन्दिग्धं कर्म पौरुषम् ।।

अन्यथा परिदृष्टानि कविभिर्दोवदर्शिभिः ।
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ।।

सुमन्त्रितं सुनीतं च न्यायतश्चोपपादितम् ।
कृतं मानुष्यकं कर्म दैनेनापि विरुद्ध्यते ।।

दैवमप्यकृतं कर्म पौरुषेण विहन्यते ।
शीतमुष्णं तथा वर्षं क्षुत्पिपासे च भारत ।।

यदन्यद्दिष्टभावस्य पुरुषस्य स्वयं कृतम् ।
तस्मादनुपरोधश्च विद्यते तत्र लक्षणम् ।।

लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः।
एवंबुद्धिः प्रवर्तेत फलं स्यादुभयान्वये ।।

य एवं कृतबुद्धिः स कर्मस्वेव प्रवर्तते ।
नासिद्धो व्यथते तस्य न सिद्धौ हर्षमश्रुते ।।

तत्रेयमनुमात्रा मे भीमसेन विवक्षिता।
नैकान्तसिद्धिर्वक्तव्या शत्रुभिः सह संयुगे ।।

नातिप्रहीणरश्मिः स्यात्तथा भावविपर्यये ।
विषादमर्च्छेद् ग्लानिं वाप्येतमर्थं ब्रवीमिते ।।

श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव।
यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन् ।।

शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम।
भवतां कच कृतः कामस्तेषां च श्रेय उत्तमम् ।।

ते चेदभिनिवेक्ष्यन्ते नाभ्युपैष्यन्ति मे वचः ।
कुरवो युद्धमेवात्र घोरं कर्म भविष्यति ।।

अस्मिन्युद्धे भीमसेन त्वयि भारः समाहितः।
धूरर्जुनेन धार्या स्याद्वेढव्य इतरो जनः ।।

अहं हि यन्ता बीभत्सोर्भविता संयुगे सति।
धनञ्जयस्यैष कामो न हि युद्धं न कामये ।।

तस्मादाशङ्कमानोऽहं वृकोदर मतिं तव।
गदतः क्लीबया वाचा तेजस्ते समदीदिपम् ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि षट्सप्ततितमोऽध्यायः ।।