उद्योगपर्व
अध्यायः ६६
वैशंपायान उवाच।
दुर्योधने धार्तराष्ट्रे तद्वचो नाभिनन्दति।
तूष्णींभूतेषु सर्वेषु समुत्तस्थुर्नरर्षभाः ।।
उत्थितेषु महाराज पृथिव्यां सर्वराजसु।
रहिते सञ्जयं राजा परिप्रष्टुं प्रचक्रमे ।।
आशंसमानो विजयं तेषां पुत्रवशानुगः ।
आत्मनश्च परेषां च पाण्डवानां च निश्चयम् ।।
धृतराष्ट्र उवाच।
गावल्गणे ब्रूहि नः सारफल्गु
स्वेसनायं यावदिहास्ति किंचित्।
त्वं पाण्डवानां निपुणं वेत्थ सर्वं
किमेषां ज्यायः किमु तेषां कनीयः ।।
त्वमेतयोः सारवित्सर्वदर्शी
धर्मार्थयोर्निपुणो निश्चयज्ञः।
स मे पृष्टः सञ्जय ब्रूहि सर्वं
युध्यमानाः कतरेऽस्मिन्न सन्ति ।।
सञ्जय उवाच।
न त्वां ब्रूयां रहिते जातु किंचि-
दसूया हि त्वां प्रविशेत राजन्।
आनयस्व पितरं महाव्रतं
गान्धारीं च महिषीमाजमीढ ।।
तो तेऽसूयां विनयेतां नरेन्द्र
धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ ।
तयोस्तु त्वां सन्निधौ तद्वदेयं
कृत्स्नं मतं केशवपार्थयोर्यत् ।।
वैशंपायन उवाच।
इत्युक्तेन च गान्धारी व्यासश्चात्राजगामह।
आनीतौ विदुरेणेह सभां शीघ्रं प्रवेशितौ ।।
ततस्तन्मतमाज्ञाय सञ्जयस्यात्मजस्य च।
अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् ।।
व्यास उवाच।
संपृच्छते धृतराष्ट्रय सञ्जय
आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते।
सर्वं यावद्वेत्थ तस्मिन्यथाव-
द्याथातथ्यं वासुदेवेऽर्जुने च ।।
।। इति श्रीमन्महाभारतो उद्योगपर्वणि
यानसन्धिपर्वणि षट्षष्टितमोऽध्यायः ।।