उद्योगपर्व
अध्यायः ६५
धृतराष्ट्र उवाच।
दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक।
उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः ।।
पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रजिहीर्षसि।
पञ्चानामिव भूतानां महतां लोकधारिणाम् ।।
युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम्।
परां गतिमसंप्रेत्य न त्वं जेतुमिहार्हसि ।।
भीमसेनं च कौन्तेयं यस्य नास्ति समो बले।
रणान्तकं तर्जयसे महावातमिव द्रुमः ।।
सर्वशस्त्रभृतां श्रेष्ठं मेरुं सिखरिणामिव।
युधि गाण्डिवधन्वानं को नु युध्येत बुद्धिमान् ।।
धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत्।
शत्रुमध्ये शरान्मुञ्चन्देवराडशनीमिव ।।
सात्यकिश्चापि दुर्धर्षः संमतोऽन्धकवृष्णिषु।
ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः ।।
यः पुनः प्रतिमानेन त्रील्लोकानतिरिच्यते ।
तं कृष्णं पुण्डरीकाक्षं को नु युद्ध्येत बुद्धिमान् ।।
एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः।
आत्मा च पृथिवी चेयमेकतश्च धनञ्जयः ।।
वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः ।
अविषह्यं पृथिव्यापि तद्बलं यत्र केशवः ।।
तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम्।
वृद्धं शान्तनवं भीष्मं तितिक्षस्व पितामहम् ।।
मां च ब्रुवाणं शुश्रूष कुरूणामर्थदर्शिनम् ।
द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम् ।।
एते ह्यपि यतैवाहं मन्तुमर्हसि तांस्तथा।
सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत ।।
यत्तद्विराटनगरे सह भ्रातृभिरग्रतः।
उत्सृज्य गाः सुसन्त्रस्तं बलं ते समशीर्यत ।।
यच्चैव नगरे तस्मिञ्श्रूयते महदद्भुतम्।
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ।।
अर्जुनस्तत्तथाकार्षीत्किं पुनः सर्व एव ते।
स भ्रातॄनभिजानीहि वृत्त्या तं प्रतिपादय ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि पञ्चषष्टितमोऽध्यायः ।।