उद्योगपर्व

अध्यायः ६७

Udyoga Parva (Sanskrit) · Adhyaya 67
अक्षर का आकार

सञ्जय उवाच।

अर्जुनो वासुदेवश्च धन्विनौ परमार्थितौ।
कामादन्यत्र संभूतौ सर्वभावाय संमितौ।।

व्यामान्तरं समास्थय यथामुक्तं मनस्विनः ।
चक्रं तद्वासुदेवस्य मायया वर्तते विभो।।

सापह्नवं कौरवेषु पाण्डवानां सुसंमतम्।
सारासारबलं ज्ञातुं तेजःपुञ्जावभासितम् ।।

नरकं शम्बरं चैव कंसं चैद्यं च माधवः।
जितवान्घोरसङ्काशान्क्रीडन्निव महाबलः ।।

पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः ।
मनसैव विशिष्टात्मा नयत्यात्मवशं वशी ।।

भूयो भूयो हि यद्राजन्पृच्छसे पाण्डवान्प्रति ।
सारासारबलं ज्ञातुं तत्समासेन मे शृणु ।।

एकतो वा जगत्कृत्स्नमेकतो वा जनार्दनः।
सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः ।।

भस्म कुर्याञ्जगदिदं मनसैव जनार्दनः ।
न तु कृत्स्नं जगच्छक्तं किञ्चित्कर्तुं जनार्दने ।।

यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः।
ततो भवति गोविन्दो यतः कृष्णस्ततो जयः ।।

पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः।
विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः ।।

स कृत्वा पाण्डवान्सत्रं लोकं संमोहयन्निव ।
अधर्मनिरतान्मूढान्दग्धुमिच्छति ते सुतान् ।।

कालचक्रं जगच्चक्रं युगचक्रं च केशवः।
आत्मयोगेन भगवान्परिवर्तयतेऽनिशम् ।।

कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च ।
ईष्टे हि भगवानेकः सत्यमेतद्ब्रवीमि ते ।।

ईशन्नपि महायोगी सर्वस्य जगतो हरिः।
कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः ।।

तेन वञ्चयते लोकान्मायायोगेन केशवः ।
ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि सप्तषष्टितमोऽध्यायः ।।