उद्योगपर्व

अध्यायः ५९

Udyoga Parva (Sanskrit) · Adhyaya 59
अक्षर का आकार

धृतराष्ट्र उवाच।

ब्रूहि सञ्जय यच्छेषं वासुदेवादनन्तरम्।
यजर्जुन उवाच त्वां परं कौतूहलं हि मे ।।

सञ्जय उवाच।

वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनञ्जयः।
उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः ।।

पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय ।
द्रोणं कृपं च शल्यं च महाराजं च बाह्लिकम् ।।

द्रौणिं च सौमदत्तिं च शकुनिं चापि सौबलम् ।
दुश्शासनं शलं चैव पुरुमित्रं विविंशतिम् ।।

विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम्।
विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि पौरवम् ।।

सैन्धवं दुस्सहं चैव भूरिश्रवसमेव च।
भगदत्तं च राजानं जलसन्धं च पौरवम् ।।

ये चाप्यन्ये पार्थिवास्तत्र योद्धुं
समागताः कौरवाणां प्रियार्थम्।
मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते
समानीता धार्तराष्ट्रोण सूत।।

यथान्यायं कुशलं वन्दनं च
समागता मद्वचनेन वाच्याः ।।

सहामात्यं सञ्जय श्रावयेथाः ।।

एवं परिष्वज्य धनञ्जयो मां
ततोऽर्थवद्धर्मवच्चापि वाक्यम्।
प्रोवाचेदं वासुदेवं समीक्ष्य
पार्थो धीमाँल्लोहितान्तायताक्षः ।।

यथाश्रुतं ते वदतो महात्मनो
यदुप्रवीरस्य वचः समाहितम्।
तथैव वाच्यं भवतापि मद्वचः
समागतेषु क्षितिपेषु सर्वशः ।।

शराग्निधूमे रथनेमिनादिते
धनुस्स्त्रुवेणास्त्रबलापहारिणा ।
यथा न होमः क्रियते महामृधे
तथा समेत्य प्रयतध्वमादृताः ।।

न चेत्प्रयच्छध्वममित्रघातिनो
युधिष्ठिरस्यार्धमभीप्सितं स्वकम्।
नयामि वः साश्वपदातिकुञ्जरा-
न्दिशं पितॄणामशिवां शितैः शरैः ।।

ततोऽहमामन्त्र्य चतुर्भुजं हरिं
धनञ्जयं चैव नमस्य सत्वरम्।
जवेन संप्राप्त इहामरद्युते
तवान्तिकं प्रापयितुं वचो महत् ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि एकोनषष्टितमोऽध्यायः ।।