उद्योगपर्व

अध्यायः ५८

Udyoga Parva (Sanskrit) · Adhyaya 58
अक्षर का आकार

धृतराष्ट्र उवाच।

क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः।
तेन संयुगमेष्यन्ति मन्दा विलपतो मम ।।

दुर्योधन निवर्तस्व युद्धाद्भरतसत्तम ।
न हि युद्धं प्रशंसन्ति सर्वावस्थमरिन्दम ।।

अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम् ।
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिन्दम ।।

एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम् ।
यत्त्वं प्रशान्तिं मन्येथाः पाण्डुपुत्रैर्महात्मभिः ।।

अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम् ।
जात एष तवाभावस्त्वं तु मोहान्न बुद्ध्यसे ।।

न त्वहं युद्धमिच्छामि नैतदिच्छति बाह्लिकः।
न च भीष्मो न च द्रोणो नाश्वत्थामा न सञ्जयः ।।

न सोमदत्तो न शलो न कृपो युद्धमिच्छति ।
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा ।।

येषु संप्रतितिष्ठेयुः कुरवः पीडिताः परैः ।
ते युद्धं नाभिनन्दन्ति तत्तुभ्यं तात रोचताम् ।।

न त्वं करोषि कामेन कर्णः कारयिता तव।
दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः ।।

दुर्योधन उवाच।

नाहं भवति न द्रोणे नाश्वत्थाम्नि न सञ्जये।
न भीष्मे न काम्भोजे न कृपे न च बाह्लिके ।।

सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः ।
अन्येषु वा तावकेषु भारं कुत्वा समाह्वयम् ।।

अहं च तात कर्णश्च रणयज्ञं वितत्य वै।
युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ ।।

रथो वेदी स्रुवः खङ्गो गदा स्रुक् कवचोऽजिनम् ।
चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः ।।

आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे।
विजित्य च समेष्यावो हतामित्रौ श्रिया वृतौ ।।

अहं च तात कर्णश्च भ्राता दुःशासनश्च मे।
एते वयं हनिष्यामः पाण्डवान्समरे त्रयः ।।

अहं हि पाण्डवान्हत्वा प्रशास्ता पृथिवीमिमाम् ।
मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीमिमां ।।

त्यक्तं मे जीवितं राज्यं धनं सर्वं च पार्थिव ।
न जातु पाण्डवैः सार्धं वसेयमहमच्युत ।।

यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष ।
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति ।।

धृतराष्ट्र उवाच।

सर्वान्वस्तात शोचामि त्यक्तो दुर्योधनो मया।
ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम् ।।

रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः।
वरान्वरान्हनिष्यन्ति समेता युधि पाण्डवाः ।।

प्रतीपमिव मे भाति युयुधानेन भारती।
व्यस्ता सीमन्तिनी ग्रस्ता प्रमृष्टा दीर्घबाहुना ।।

संपूर्मं पूरयन्भूयो धनं पार्थस्य माधवः।
शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् ।।

सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति।
तं सर्वे संश्रयिष्यन्ति प्राकारमकुतोभयम् ।।

यदा द्रक्ष्यसि भीमेन कुञ्जरान्विनिपातितान्।
विशीर्णदन्तान्गिर्याभान्भिन्नकुम्भान्सशोणितान्।।

तानभिप्रेक्ष्य सङ्ग्रामे विशीर्णानिव पर्वतान्।
भीतो भीमस्य संस्पर्शात्स्मर्तासि वचनस्य मे ।।

निर्दग्धं भीमसेनेन सैन्यं रथहयद्विपम् ।
गतिमग्नेरिव प्रेक्ष्य स्मर्तासि वचनस्य मे ।।

महद्वो भयमागामि न चेच्छाम्यथ पाण्डवैः।
गदया भीमसेनेन हताः शममुपैष्यथ ।।

महावनमिव च्छिन्नं यदा द्रक्ष्यसि पातितम् ।
बलं कुरूणां भीमेन तदा स्मर्तासि मे वचः ।।

वैशंपायन उवाच।

एतावदुक्त्वा राजा तु सर्वांस्तान्पृथिवीपतीन्।
अनुभाष्य महाराज पुनः पप्रच्छ सञ्जयम् ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि अष्टपञ्चाशत्तमोऽध्यायः ।।