उद्योगपर्व
अध्यायः ६०
वैशंपायन उवाच।
सञ्जयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्जनेश्वरः।
ततः सङ्ख्यातुमारेभे तद्वचो गुणदोषतः ।।
प्रसङ्ख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः।
यथावन्मतितत्त्वेन जयकामः सुतान्प्रति ।।
बलाबलं विनिश्चित्य याथातथ्येन बुद्धिमान्।
`यदा तु मेने भूयिष्ठं तद्वचो गुणदोषतः ।।
पुनरेव कुरूणां च पाण्डवानां च बुद्धिमान् ।'
शक्तिं शङ्ख्यातुमारेभे तदा वै मनुजाधिपः ।।
देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान्।
कुरूञ्शक्त्याऽल्पतरया दुर्योधनमथाब्रवीत् ।।
दुर्योधनेयं चिन्ता मे शश्वन्न व्युपशाम्यति।
सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः ।।
आत्मजेषु परं स्नेहं सर्वभातिनि कुर्वते।
प्रियामि चैषां कुर्वन्ति यथाशक्ति हितानि च ।।
एवमेवोपकर्तॄणां प्रायशो लक्षयामहे।
इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम् ।।
अग्निः साचिव्यर्ता स्यात्खाण्डवे तत्कृतं स्मरन् ।
अर्जुनस्यापि भीमेऽस्मिन्कुरुपाण्डुसमागमे ।।
जातिगृद्ध्याऽभिपन्नाश्च पाण्डवानामनेकशः।
धर्मादयः समेष्यन्ति समाहूता दिवौकसः ।।
भीष्मद्रोणकृपादीनां भयादशनिसन्निभम् ।
रिरक्षिषन्तः संरभ्यं गमिष्यन्तीति मे मतिः ।।
ते देवैः सहिताः पार्था न शक्याः प्रतिवीक्षितुम् ।
मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः ।।
दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम् ।
वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी ।।
वानरश्च ध्वजे दिव्यो निःसङ्गे धूमवद्गतिः ।
रथश्च चतुरन्तायां यस्य नास्ति समः क्षितौ ।।
महामेघनिभश्चापि निर्घोषः श्रूयते जनैः ।
महाशनिसमः शब्दःत शात्रवाणां भयंकरः ।।
यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति।
देवानामपि जेतारं यं विदुः पार्थिवा रणे ।।
शतानि पञ्च चैवेषून्यो गृह्णन्नैव दृश्यते।
निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन् ।।
यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च ।
मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः ।।
युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः ।
अशक्यं रथशार्दूलं पराजेतुमरिंदमम् ।।
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः।
सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम् ।।
तमर्जुनं महेष्वासं महेन्द्रोपेन्द्रविक्रमम्।
निघ्नन्तमिव पश्याभि विमर्देऽस्मिन्महाहवे ।।
इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत ।
अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया ।।
क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः।
अस्य चेत्कलहन्यान्तः शमादन्यो न विद्यते ।।
शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः ।
कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि षष्टितमोऽध्यायः ।।