उद्योगपर्व
अध्यायः ५७
धृतराष्ट्र उवाच।
कांस्तत्र सञ्जयापश्यः प्रीत्यर्थेन समागतान्।
ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम् ।।
सञ्जय उवाच।
मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम्।
चेकितानं च तत्रैव युयुधानं च सात्यकिम् ।।
पृथगक्षौहिणीभ्यां तु पाण्डवानभिसंश्रितौ ।
महारथौ समाख्यातावुभौ पुरुषमानिनौ ।।
अक्षौहिण्याऽथ पाञ्चाल्यो दशभिस्तनयैर्वृतः।
सत्यजित्प्रमुखैर्वीरैर्धृष्टद्युम्नपुरोगमैः ।
द्रुपदो वर्धयन्मानं शिखण्डिपरिपालितः।
उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः ।।
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च।
सूर्यदत्तादिभिर्वीरैर्मदिराक्षपुरोगमैः ।।
सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा ।
अक्षौहिण्यैव सैन्यानां वृतः पार्थं समाश्रितः ।।
जारासन्धिर्मागधश्च धृष्टकेतुश्च चेदिराट्।
पृथक्पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ ।।
केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः ।
अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः ।।
एतानेतावतस्तत्र तानपश्यं समागतान्।
ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम् ।।
यो वेद `मानुषं व्यूहं दैवं गान्धर्वमासुरम्।
स तत्र सेनाप्रमुखे धृषटद्युम्नो महारथः ।।
भीष्मः शान्तनवो राजन्भागः क्लृप्तः शिखण्डिनः
तं विराटोऽनुसंयाता सार्धं मत्स्यैः प्रहारिभिः ।।
ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली।
तौ तु तत्राब्रुवन्केचिद्विषमौ नो मताविति ।।
दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च।
प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः ।।
अर्जुनस्य तु भागेन कर्णे वैकर्तनो मतः।
अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः ।।
अशक्याश्चैव ये केचित्पृथिव्यां शूरमानिनः ।
सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः ।।
महेष्वांसा राजपुत्रा भ्रातरः पञ्च केकयाः ।
केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे ।।
तेषामेव कृतो भागो मालवाः साल्वकास्तथा।
त्रिगर्तानां च वै मुख्यौ यौ तौ संशप्तकाविति ।।
दुर्योधनसुताः सर्वे तथा दुःशासनस्य च।
सौभद्रेण कृतो भागो राजा चैव बृहद्बलः ।।
द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः ।
धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत ।।
चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति।
भोजं तु कृतवर्माणं युयुधानो युयुत्सति ।।
सहदेवस्तु माद्रेयः शूरः संक्रन्दनो युधि।
स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम् ।।
उलूकं चैव कैतव्यं ये च सारस्वता गणाः।
नकुलः कल्पयामास भागं माद्रवतीसुतः ।।
ये चान्ये पार्थिवा राजन्प्रत्युद्यास्यन्ति सङ्गरे।
समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन् ।।
एवमेषामनीकानि प्रविभक्तानि भागशः।
यत्ते कार्यं सपुत्रस्य क्रियतां तदकालिकम् ।।
धृतराष्ट्र उवाच।
न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः।
येषां युद्धं बलवता भीमेन रणमूर्धनि ।।
राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा ।
गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम् ।।
विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः ।
तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि ।।
सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः ।
सूर्यपावकयोस्तुल्यास्तेजसा समितिंजयाः ।।
येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः ।
योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ ।।
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः।
सात्यकिर्द्रुपदश्चैव धृष्टकेतुश्च सानुजः ।।
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः।
शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः ।।
काशयश्चेदयश्चैव मत्स्याः सर्वे च सृञ्जयाः ।
विराटपुत्रो बभ्रुश्च पाञ्चालाश्च प्रभद्रकाः ।।
येषांमिन्द्रोऽप्यकामानां न हरेत्पृथिवीमिमाम्।
वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि ।।
तान्सर्वगुणसंपन्नानमनुष्यप्रतापिनः ।
क्रोशतो मम दुष्पुत्रो योद्धुमिच्छति सञ्जय ।।
दुर्योधन उवाच।
उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ ।
अथ कस्मात्पाण्डवानामेकतो मन्यसे जयम् ।।
पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम्।
जयद्रथं सोमदत्तमश्वत्थामानमेव च ।।
सुतेजसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः ।
अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः ।।
सर्वे च पृथिवीपाला मदर्थे तात पाण्डवान्।
आर्याः शस्त्रभृतः शूराः समर्थाः प्रतिबाधितुं ।।
न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम् ।
पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्योद्धुमाहवे ।।
मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत ।
ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना ।।
महता रथवंशेन शरजालैश्च मामकैः ।
अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह ।।
धृतराष्ट्र उवाच।
उन्मत्त इव मे पुत्रो विलपत्येष सञ्जय।
न हि शक्तो रमे जेतुं धर्मराजं युधिष्ठिरम् ।।
जानाति हि यथा भीष्मः पाण्डवानां यशस्विनाम्।
बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम् ।।
यतो नारोचयदयं विग्रहं तैर्महात्मभिः।
किं तु सञ्जय मे ब्रूहि पुनस्तेषां विचेष्टितम् ।।
कस्तांस्तरस्विनो भूयः सन्दीपयति पाण्डवान्।
अर्चिष्मतो महेष्वासान्हविषा पावकानिव ।।
सञ्जय उवाच।
धृष्टद्युम्नः सदैवैतान्सन्दीपयति भारत।
युद्ध्यध्वमिति माभैष्ट युद्धाद्भरतसत्तमाः ।।
ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः।
युद्धे समागमिष्यन्ति तुमुले शस्त्रसङ्कुले ।।
तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान्।
अहमेकः समादास्ये तिमिर्यत्स्यानिवोदकात् ।।
भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम् ।
एतांश्चापि निरोत्स्यामि वेलेव मकरालयम् ।।
तथा ब्रुवन्तं धर्मात्मा प्राह राजा युधिष्ठिरः।
तव धैर्यं च वीर्यं च पाञ्चालः पाण्डवैः सह ।।
सर्वे समधिरूढाः स्म सङ्ग्रामान्नः समुद्धर ।
जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम् ।।
समर्थमेकं पर्याप्तं कौरवाणां विनिग्रहे ।
पुरस्तादुपयातानां कौरवाणां युयुत्सताम् ।।
भवत्ता यद्विधातव्यं तन्नः श्रेयः परंतप।
सङ्ग्रामादपयातानां भग्नानां शरणैषिणाम् ।।
पौरुषं दर्शयञ्शूरो यस्तिष्ठेदग्रतः पुमान्।
क्रीणीयात्तं सहस्रेण इति नीतिमतां मतम् ।।
स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ ।
भयार्तानां परित्राता संयुगेषु न संशयः ।।
एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे।
धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसम् ।
सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये ।।
सबाह्लिकान्कुरून्ब्रूयाः प्रातिपेयाञ्शरद्वतः ।
सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम् ।।
दुःशासनं विकर्णं च तथा दुर्योधनं नृपम्
भीष्मं च ब्रूहि गत्वा त्वमाशु गच्छ च माचिरम् ।।
युधिष्ठिरः साधुनैवाभ्युपेयो
मा वोऽवधीदर्जुनो देवगुप्तः।
राज्यं दद्ध्वं धर्मराजस्य तूर्णं
याचध्वं वै पाण्डवं लोकवीरम् ।।
नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन।
यथाविधः सव्यसाची पाण्डवः सत्यविक्रमः ।।
देवैर्हि संभृतो दिव्यो रथो गाण्डीवधन्वनः ।
न सजेयोमनुष्येण मा स्म कृद्ध्वं मनो युधि ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि सप्तपञ्चाशत्तमोऽध्यायः ।।