उद्योगपर्व

अध्यायः ५६

Udyoga Parva (Sanskrit) · Adhyaya 56
अक्षर का आकार

दुर्योधन उवाच।

अक्षौहिणीः सप्त लब्ध्वा राजभिः सह सञ्जय।
किंस्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः ।।

सञ्जय उवाच।

अतीव मुदितो राजन्युद्धप्रेप्युर्युधिष्ठिरः।
भीमसेनार्जुनौ चोभौ यमावपि न बिभ्यतः ।।

रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन्दिशः।
मन्त्रं जिज्ञासमानः सन्बीभत्सुः समयोजयत् ।।

तमपश्याम सन्नद्धं मेघं विद्युद्युतं यथा।
समन्तात्समभिध्या हृष्यमाणोऽभ्यभाषत।
पूर्वरूपमिदं पश्य वयं जेष्याम सञ्जय ।।

बीभत्सुर्मां यथोवाच तथाऽवैम्यहमप्युत ।।

दुर्योधन उवाच।

प्रशंसस्यभिनन्दंस्तान्पार्थानक्षपराजितान्।
अर्जुनस्य रथे ब्रूहि कथमश्वाः कथं ध्वजाः ।।

सञ्जय उवाच।

भौमनः सह शक्रेण बहुचित्रं विशांपते।
रूपाणि कल्पयामास त्वष्टा धाता सदा विभो।।

ध्वजे हि तस्मिन्रूपाणि चक्रुस्ते देवमायया।
महाधनानि दिव्यानि महान्ति च लघूनि च ।।

भीमसेनानुरोधायक हनूमान्मारुतात्मजः।
आत्मप्रतिकृतिं तस्मिन्ध्वज आरोपयिष्यति ।।

सर्वा दिशो योजनमात्रमन्तरं
सतिर्यगूर्ध्वं च रुरोध वै ध्वजः।
न संसञ्जेत्तरुभिः संवृतोऽपि
तथा हि माया विहिता भौमनेन ।।

यथाऽऽकाशे शक्रधनुः प्रकाशते
न चैकवर्णं न च वेद्मि किं नु तत्।
तथा ध्वजो विहितो भौमनेन
बह्वाकारं दृश्यते रूपमस्य ।।

यथाऽग्निधूमो दिवमेति रुद्ध्वा।
वर्णान्बिभ्रत्तैजसांश्चित्ररूपान्।
तथा ध्वजो विहितो भौमनेन
न चेद्भारो भविता नोत रोधः ।।

हतंहतं दत्तवरं पुरस्तात्

तथा राज्ञो दन्तवर्णा बृहन्तो
रथे युक्ता भान्ति तद्वीर्यतुल्याः।
ऋक्षप्रख्या भीमसेनस्य वाहा
रथे वायोस्तुल्यवेग बभूवुः ।।

कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा
भ्रात्रा दत्ताः प्रीयता फाल्गुनेन।
भ्रातुर्बीरस्य स्वैस्तुरङ्गैर्विशिष्टा
मुदा युक्ताः सहदेवं वहन्ति ।।

माद्रीपुत्रं नकुलं त्वाजमीढं
महेन्द्रदत्ता हरयो वाजिमुख्याः ।
समा वायोर्बलवन्तस्तरस्विनो
वहन्ति वीरं वृत्रशत्रुं यथेन्द्रम् ।

तुल्याश्चैभिर्वयसा विक्रमेण
महाजवाश्रित्ररूपाः सदश्वाः ।
सौभद्रादीन्द्रौपदेयान्कुमारान्
वहन्त्यश्वा देवदत्ता बृहन्तः ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि षट्पञ्चाशोऽध्यायः ।।