उद्योगपर्व

अध्यायः ५५

Udyoga Parva (Sanskrit) · Adhyaya 55
अक्षर का आकार

दुर्योधन उवाच।

न भेतव्यं महाराज न शोच्या भवतां वयम्।
समर्थाः स्म पराञ्जेतुं बलिनः समरे विभो ।।

वने प्रव्राजितान्पार्थान्यदायान्मधुसूदनः ।
महता बलचक्रेण परराष्ट्रावमर्दिना ।।

केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षत।
राजानश्चान्वयुः पार्थान्बहवोऽन्येऽनुयायिनः ।।

इन्द्रप्रस्थस्य चादूरात्समाजग्मुर्महारथाः ।
व्यगर्हयंश्च संगम्य भवन्तं कुरुभिः सह ।।

ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम्।
कृष्णप्रधानाः संहत्य पर्युपासन्त भारत ।।

प्रत्यादनं च राज्यस्य कार्यमूचुर्नराधिपाः ।
भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः।।

श्रुत्वा चैवं मयोस्तास्तु भीष्मद्रोणकृपास्तदा।
ज्ञातिक्षयभयाद्राजन्भीतेन भरतर्षभ ।।

ततः स्थास्यन्ति समये पाण्डवा इति मे मतिः।
समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति ।।

ऋते च विदुरात्सर्वे यूयं वध्या मता मम।
धृतराष्ट्रस्तु धर्मज्ञो न वध्यः कुरुसत्तमः।।

समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः।
एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे ।।

तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम्।
प्राणान्वा संपरित्यज्य प्रतियुध्यामाहे परान् ।।

प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः।
युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः ।।

विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः।
धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः ।।

प्रणिपाते न दोषोस्ति सन्धिर्नः शाश्वतीः समाः।
पितरं त्वेव शोचामि प्रज्ञानेत्रं जनाधिपम् ।।

मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम्।
कृतं हि तव पुत्रैश्च परेषामवरोधनम् ।
मत्प्रयार्थं पुरैवैतद्विदितं ते नरोत्तम ।।

ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः ।
वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः ।।

ततो द्रोणोऽब्रवीद्भीष्मः कृपो द्रौणिश्च भारत।
मत्वा मां महतीं चिन्तामास्थितंव्यथितेन्द्रियं ।।

अभिद्रुग्धाः परे चेन्नो न भेतव्यं परन्तप।
असमर्थाः परे जेतुमस्मान्युधि समास्थितान् ।।

एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान्।
आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः ।।

पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः।
मृते पितर्यतिक्रुद्धो रथेनैकेन भारत।।

जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः।
ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात्।।

स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे।
परान्विजेतुं तस्मात्ते व्येतु भीर्भरतर्षभ ।।

इत्येषां निश्चयो ह्यासीत्तत्कालेऽमिततेजसाम्।
पुरा तेषां पृथिवी कृत्स्नासीद्वशवर्तिनी ।।

अस्मान्पुनरमी नाद्य समर्था जेतुमाहवे।
छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः ।।

अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ।
एकार्थाः सुखदुःखेषु समानीताश्च पार्थिवाः ।।

अप्यग्निं प्रविशेयुस्ते समुद्रं वा परन्तप।
मदर्थं पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम।।

उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम्।
विलपन्तं बहुविधं भीतं परविकत्थने।।

एषां ह्येकैकशो राज्ञां समर्थं पाण्डवान्प्रति ।
आत्मानं मन्यते सर्वो व्येतु ते भयमागतम् ।।

जेतुं समग्रां सेनां मे वासवोऽपि न शक्नुयात्।
हन्तुमक्षय्यरूपेयं ब्रह्मणोऽपि स्वयंभुवः ।।

युधिष्ठिरः पुरं हित्वा पञ्चग्रामान्स याचते।
भीतो हि मामकात्सैन्यात्प्रभावाच्चैव मे विभो ।।

समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम्।
तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्सि भारत ।।

मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन।
नासीत्कश्चिदतिक्रान्तो भविता न च कश्चन ।।

युक्तो दुःखोषितश्चाहं विद्यापारगतस्तथा।
तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित् ।।

दुर्योधनसमो नास्ति गदायामिति निश्चयः।
सङ्कर्षणस्य भवने यत्तदैनमुपावसम्।

युद्धे सङ्कर्षणसमो बलेनाभ्यधिको भुवि।
गदाप्रहारं भीमो मे न जातु विषहेद्युधि ।।

एकं प्रहारं यं दद्यां भीमाय रुषितो नृप।
स एवैनं नयोद्धोरः क्षिप्रं वैवस्वतक्षयम् ।।

इच्छेयं च गदाहस्तं राजन्द्रष्टुं वृकोदरम्।
सुचिरं प्रार्थितो ह्येष मम नित्यं मनोरथः ।।

गदया निहतो ह्याजौ मया पार्थो वृकोदरः ।
विशीर्णगावः पृथिवीं परासुः प्रपतिष्यति ।।

गदाप्रहाराभिहतो हिमवानपि पर्वतः।
सकृन्मया विदीर्येत गिरिः शतसहस्रधा ।।

स चाप्येतद्विजानाति वासुदेवार्जुनौ तथा।
दुर्योधनसमो नास्ति गदायामिति निश्चयः ।।

तत्ते वृकोदरमयं भयं व्येतु महाहवे।
व्यपनेष्याम्यहं ह्येनं मा राजन्विमना भव ।।

तस्मिन्मया हते क्षिप्रमर्जुनं बहवो रथाः ।
तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षभ ।।

भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा ।
प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः।।

एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान्।
समेतास्तु क्षणेनैतान्नेष्यन्ति यमसादनम् ।।

समग्रा पार्थिवी सेना पार्थमेकं धनञ्जयम्।
कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते ।।

शरव्रातैस्तु भीष्मेण शतशो निचितोऽवशः।
द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम्।।

पितामहोऽपि गाङ्गेयः शान्तनोरधि भारत।
ब्रह्मर्पिसदृशो जज्ञे देवैरपि सुदुःसहः ।।

न हन्ता विद्यते चापि राजन्भीष्मस्य कश्चन।
पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि ।।

ब्रह्मर्षेश्च भरद्वाजाद्द्रोणो द्रोण्यामजायत।
द्रोणाज्जज्ञे महाराज द्रौणिश्च परमाश्त्रवित् ।।

कृपश्चाचार्यमुख्योयं महर्षेर्गौतमादपि ।
शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः ।।

अयोनिजास्त्रयो ह्येते पिता माता च मातुलः ।
अश्वत्थाम्नो महारात स च शूरः स्थितो मम ।।

सर्व एते महाराज देवकल्पा महारथाः।
शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ ।।

नैतेषामर्जुनः शक्त एकैकं प्रतिवीक्षितुम्।
सहितास्तु नरव्याघ्रा हनिष्यन्ति धनञ्जयम् ।।

भीष्माद्रोणकृपाणां च तुल्यः कर्णो मतो मम।
अनुज्ञातश्च रामेण मत्समोऽसीति भारत ।।

कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे ।
ते शच्यर्थं महेन्द्रेण याचितः स परन्तपः ।।

अमोघया महाराज शक्त्या परमभीमया।
तस्य शक्त्योपगूढस्य कस्माज्जीवेद्धनञ्जयः।।

विजयो मे ध्रुवं राजन्फलं पाणाविवाहितम्।
अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः ।

अह्ना ह्येकेन भीष्मोयं प्रयुतं हन्ति भारत।
तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि ।।

संशप्तकानां वृन्दानि क्षत्रियाणां परन्तप।
अर्जुनं वयमस्मान्वा निहन्यात्कपिकेतनः ।।

तांश्चालमिति मन्यन्ते सव्यसाचिवधे धृताः।
पार्थिवाः स भवांस्तेभ्यो ह्यकस्माद्व्यथते कथम्।।

भीमसेने च निहते कोऽन्यो युध्येत भारत।
परेषां तन्ममाचक्ष्व यदि वेत्थ परन्तप ।।

पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः ।
परेषां सप्त ये राजन्योधाः सारं बलं मतम् ।।

अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः ।
द्रौणिर्विकर्तनः कर्णः सोमदत्तोथ बाह्लिकः ।।

प्राग्ज्योतिषाधिपः शल्य आवन्त्यौ च जयद्रथः।
दुःशासनो दुर्मखश्च दुःसहश्च विशांपते।।

श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः।
शलो भूरिश्रवाश्चैव विकर्णश्च तवात्मजः ।।

अक्षौहिण्यो हि मे राजन्दशैका च समाहृताः।
न्यूना परेषां सप्तैव कस्मान्मे स्यात्पराजयः ।।

बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः।
परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी ।।

गुणहीनं परेषां च बहु पश्यामि भारत।
गुणोदयं बहुगुणमात्मनश्च विशांपते।।

एतत्सर्वं समाज्ञाय बलाग्र्यं मम भारत ।
न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि ।।

इत्युक्त्वा सञ्जयं भूयः पर्यपृच्छत भारत।
विवित्सुः प्राप्तकालानि ज्ञात्वा परपुरञ्जयः ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि पञ्चपञ्चाशत्तशोऽध्यायः ।।