उद्योगपर्व

अध्यायः ५१

Udyoga Parva (Sanskrit) · Adhyaya 51
अक्षर का आकार

धृतराष्ट्र उवाच।

सर्व एते महोत्साहा ये त्वया परिकीर्तिताः।
एकतस्त्वेव ते सर्वे समेता भीम एकतः ।।

भीमसेनाद्धि मे भूयो भयं सञ्जायते महत्।
क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः ।।

जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन्।
भीतो वृकोदरात्तात सिंहात्पशुरिवापरः ।।

न हि तस्य महाबाहोः शक्रप्रतिमतेजसः।
सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेद्युधि ।।

अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डवः ।
अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः ।।

महावेगो महोत्साहो महाबाहुर्महाबलः।
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ।।

उरुग्राहगृहीतानां गदां बिभ्रद्वृकोदरः।
कुरूणामृषभो युद्धे दण्डपाणिरिवान्तकः।।

अष्टाश्रिमायसीं घोरां गदां काञ्चनभूषणाम् ।
मनसाहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम् ।।

यथा मृगाणां यूथेषु सिंहो जातबलश्चरेत्।
मामकेषु तथा भीमो बलेषु विचरिष्यति ।।

सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः ।
बह्वाशी विप्रतीपश्च बाल्येपि रभसः सदा ।।

उद्वेपते मे हृदयं ये मे दुर्योधनादयः।
बाल्येऽपि तेन युद्ध्यन्तो वारणेनेव मर्दिताः ।।

तस्य वीर्येण संक्लिष्टा नित्यमेव सुता मम।
स एव हेतुर्भेदस्य भीमो भीमपराक्रमः ।।

ग्रसमानमनीकानि नरवारणवाजिनाम्।
पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे ।।

अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे।
महेश्वरसमं क्रोधे को हन्याद्भीममाहवे ।।

सञ्जयाचक्ष्व मे शूरं भीमसेनममर्षणम् ।
.......... येऽहं यत्तेन रिपुघातिना ।
..... सर्वे पुत्राः मम मनस्विना ।।

येन भीमबला यक्षा राक्षसाश्च पुरा हताः।
कथं तस्य रणे वेगं मानुषः प्रसहिष्यति ।।

न स जातु वशे तस्थौ मम बाल्येऽपि सञ्जय ।
किं पुनर्मम दुष्पुत्रैः क्लिष्टः संप्रति पाण्डवः ।।

निष्ठुरो रोषणोऽत्यर्थं भज्येतापि न संनमेत्।
तिर्यक्प्रेक्षीं संहतभ्रूः कथं शाम्येद्वृकोदरः ।।

शूरस्तथाऽप्रतिबलो गौरस्ताल इवोन्नतः।
प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात् ।।

जवेन वाजिनोऽत्येति बलेनान्त्येति कुञ्जरान् ।
अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली ।।

इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात्पुरा।
रूपतो वीर्यतश्चैव याथातथ्येन पाण्डवः ।।

आयसेन स दण्डेन रथन्नागान्नरान्हयान्।
हनिष्यति रणे क्रुद्धो रौद्रः क्रूरपराक्रमः ।।

अमर्षी नित्यसंरब्धो भीमः प्रहरतां वरः।
मया तात प्रतीपानि कुर्वन्पूर्वं विमानितः ।।

निष्कर्णामायसीं स्थूलां सुपार्श्वां काञ्चनीं गदाम् ।
शतघ्नीं शतनिर्हादां कथं शक्ष्यन्ति मे सुताः ।।

अपारमप्लवागाधं समुद्रं शरवेधनम् ।
भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः।।

क्रोशतो मे न श्रृण्वन्ति बालाः पण्डितमानिनः ।
विषमं न हि मन्यन्ते प्रापतं मधुदर्शिनः ।।

संयुगे ये गमिष्यन्ति नररूपेण मृत्युना।
नियतं चोदिता धात्रा सिंहेनेव महामृगाः ।।

शैक्यां तात चतुष्किष्कुं षडश्रिममितौजसम्।
प्रहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः ।।

गदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान्।
सृक्किणी लेलिहानस्य बाष्पमुत्सृजतो मुहुः ।।

उद्दिश्य नागान्पततः कुर्वतो भैरवान्रवान्।
प्रतीपं पततो मत्तान्कुञ्जरान्प्रति गर्जतः ।।

विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः ।
अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा ।।

वीथीं कुर्वन्महाबाहुर्द्रावयन्मम वाहिनीम् ।
नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति ।।

प्रभिन्न इव मातङ्गः प्रभञ्जन्पुष्पितान्द्रुमान्।
प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः ।।

कुर्वन्रथान्विपुरुषान्विसारथिहयध्वजान् ।
आरुजन्पुरुषव्याघ्रो रथिनः सादिनस्तथा ।।

गङ्गावेग इवानूपांस्तीरजान्विविधान्द्रुमान्।
प्रभङ्क्ष्यति रणे सेनां पुत्राणां मम सञ्जय ।।

वधं नूनं गमिष्यन्ति भीमसेनभयार्दिताः ।
मम पुत्राश्च भृत्याश्च राजानश्चैव सञ्जय ।।

येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा।
वासुदेवसहायेन जरासन्धो निपातितः ।।

कृत्स्नेयं पृथिवी देवी जरासन्धेन धीमता।
मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता ।।

भीष्मप्रतापात्कुरवो नयेनान्धकवृष्णयः ।
यन्न तस्य वशे जग्मुः केवलं दैवमेव तत् ।।

स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना।
अनायुधेन वीरेण निहतः किं ततोऽधिकम् ।।

दीर्घकालसमासक्तं विशमाशीविषो यथा।
स मोक्ष्यति रणे तेजः पुत्रेषु मम सञ्जय ।।

महेन्द्र इव वज्रेण दानवान्देवसत्तमः ।
भीमसेनो गदापाणिः सूदयिष्यति मे सुतान् ।।

अविषह्यमनावार्यं तीव्रवेगपराक्रमम् ।
पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम् ।।

अगदस्याप्यधनुषो विरथस्य विवर्मणः ।
बाहुभ्यां युध्यमानस्य कस्तिष्ठेदग्रतः पुमान् ।।

भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा।
जान्त्येते यथैवहं वीर्यज्ञस्तस्य धीमतः ।।

आर्यव्रतं तु जानन्तः सङ्गरान्तं विधित्सवः ।
सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः ।।

बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः।
पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान् ।।

ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः।
त्यक्ष्यन्ति तुमुले प्राणान्रक्षन्तः पार्थिवं यशः ।।

यथैषां मामकास्तात तथैषां पाण्डवा अपि।
पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च ।।

ये त्वस्मदाश्रयं किञ्चिद्दत्तमिष्टं च सञ्जय।
तस्यापचितिमार्यत्वात्कर्तारः स्थविरास्त्रयः ।।

आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः।
निधनं क्षत्रियस्याजौ वरमेवाद्दुरुत्तमम् ।।

स वै शोचामि सर्वान्वै ये युयुत्सन्ति पाण्डवैः ।
विक्रुष्टं विदुरोणादौ तदेतद्भयमागतम् ।।

न तु मन्ये विघाताय ज्ञानं दुःखस्य सञ्जय ।
भवत्यतिबलं ह्येतज्ज्ञानस्याप्युपघातकम् ।।

ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसङ्ग्रहान्।
सुखैर्भवन्ति सुखिनस्तथा दुःखेन दुःखिताः ।।

किं पुनर्मोहमासक्तस्तत्र तत्र सहस्रधा।
पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु ।।

संशये तु महत्यस्मिन्किं नु मे क्षममुत्तरम्।
विनाशं ह्येव पश्यामि कुरूणामनुचिन्ततयन् ।।

द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत्।
मन्देनैश्वर्यकामेन लोभात्पापमिदं कृतम् ।।

मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः।
चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम् ।।

किं नु कुर्यां कथं कुर्यां क्व नु गच्छामि सञ्जय ।
एते नश्यन्ति कुरवो मन्दाः कालवशं गताः ।।

अवशोऽहं तदा तात पुत्राणां निहते शते।
श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत् ।।

यथा निदाघे ज्वलनः समद्धो
दहेत्कक्षं वायुना चोद्यमानः ।
गदाहस्तः पाण्डवो वै तथैव
हन्ता मदीयान्सहितोऽर्जुनेन ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि एकपञ्चाशोऽध्यायः ।।