उद्योगपर्व
अध्यायः ५०
धृतराष्ट्र उवाच।
किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत।
श्रुत्वेह बहुलाः सेनाः प्रीत्यर्थं नः समागताः ।।
किमसौ चेष्टते सूत योत्स्यमानो युधिष्ठिरः।
के वास्य भ्रातृपुत्राणां पश्यन्त्याज्ञेप्सवो सुखम् ।।
के स्विदेनं वारयन्ति युद्धाच्छाम्येति वा पुनः।
निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम् ।।
सञ्जय उवाच।
राज्ञो मुखमुदीक्षन्ते पाञ्चालाः पाण्डवैः सह।
युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च ।।
पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः ।
आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम् ।।
नभः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम्।
पाञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोदितम् ।।
आगोपालाविपालाश्च नन्दमाना युधिष्ठिरम् ।
पाञ्चालाः केकया मत्स्याः प्रतिनन्दति पाण्डवम् ।।
ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः।
क्रीडन्त्योभिसमायान्ति पार्थं सन्नद्धमीक्षितुम् ।।
धृतराष्ट्र उवाच।
सञ्जयाचक्ष्व येनास्मान्पाडवा अभ्ययुञ्जत।
धृष्टद्युम्नस्य सैन्येन सोमकानां बलेन च ।।
वैशंपायन उवाच।
गवल्गणिस्तु तत्पुष्टः सभायां कुरुसंसदि।
निःश्वस्य सुभृशं दीर्घं मुहुः सञ्चिन्तयन्निव ।।
तत्रानिमित्ततो वैवात्सुतं कश्मलमाविशत्।
तदाचचक्षे विदुरः सभायां राजसंसदि ।।
सञ्जयोऽयं महाराज मूर्छितः पतितो भुवि।
वाचं न सृजते कांचिद्धीनप्रज्ञोऽल्पचेतनः ।।
धृतराष्ट्र उवाच।
अपश्यत्सञ्जयो नूनं कुन्तीपुत्रान्महारथान्।
तैरस्य पुरुषव्याघ्रैर्भृशमुद्वेजितं मनः ।।
वैशंपायन उवाच।
सञ्जयश्चेतनां लब्ध्वा प्रत्याश्वस्येदभब्रवीत्।
धृतराष्ट्रं महाराज सभायां कुरुसंसदि ।।
सञ्जय उवाच।
दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान्महारथान्।
मत्स्यराजगृहावासनिरोधेनावकर्शितान् ।।
श्रृणु र्यैर्हि महाराज पाण्डवा अभ्ययुञ्जत।
धृष्टद्युम्नेन वीरेण युद्धे वस्तेऽभ्ययुञ्जत ।।
यो नैव रोपान्न भयान्न लोभान्नार्थकारणात्।
न हेतुवादाद्धर्मात्मा सत्यं जाह्यात्कदाचन ।।
यः प्रमाणं महाराज धर्मे धर्मभृतां वरः।
अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत ।।
यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन।
यो वै सर्वान्महीपालान्वशे चक्रे धनुर्धरः ।
यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत् ।।
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत।
यस्य वीर्येण सहसा चत्वारो भुवि पाण्डवाः ।।
निःसृत्य जतुगेहाद्वै हिडिम्बात्पुरुषादकात्।
यश्चैपामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ।।
याज्ञसेनीमथो यत्र सिन्धुराजोपकृष्टवान्।
तत्रैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ।।
यश्च तान्सङ्गतान्सर्वान्पाण्डवान्वारणावते।
दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत ।।
कृष्णायां चरता प्रीतिं येन क्रोधवशा हताः ।
प्रविश्य विषयं घोरं पर्वतं गन्धमादनम् ।।
यस्य नागायुतैर्वीर्यं भुजयोः सारमर्पितम् ।
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ।।
कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः।
अजयद्यः पुरा वीरो युध्यमानं पुरन्दरम् ।।
यः स साक्षान्महादेवं गिरिशं शृलपाणिनम् ।
तोपयामास युद्धेन देवदेवमुपामपिम् ।।
यश्च सर्वान्वशे चक्रे लोकपालान्धनुर्धरः।
तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत ।।
यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम्।
स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः ।।
तेन वो दर्शनीयेन वीरेणातिधनुर्भृता ।
माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत ।।
यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत्।
तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत ।।
यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः ।
अश्वत्थामा धृष्टकेतू रुक्मी प्रद्युम्न एव च ।।
तेन वः सहदेवेन युद्धं राजन्महात्ययमअ।
यवीयसा नृवीरेण माद्रीनन्दिकरेण च ।।
तपश्चचार या घोरं काशिकन्या पुरा सती।
भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ ।।
पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान् ।
स्त्रीपुंसीः पुरुषव्याघ्र यः स वेद गुणागुणान् ।।
.. कलिङ्गान्समापेदे पाञ्चाल्यो युद्धदुर्मदः ।
शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत ।।
यं यक्षः पुरुषं चक्रे भीष्मस्य निधनेच्छया।
महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत ।।
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः।
आमुक्तवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत ।।
यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान्सत्यविक्रमः ।
तेन वो वृष्णिवीरेण युयुधानेन सङ्गरः ।।
य आसीच्छरणं काले पाण्डवानां महात्मनाम् ।
रणे तेन विराटेन भविता वः समागमः ।।
यः स काशिपती राजा वाराणस्यां महारथः ।
स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत ।।
शिशुभिर्दुर्जयैः सङ्ख्ये द्रौपदेयैर्महात्मभिः ।
आशीविषसमस्पर्शैः पाण्डवा अभ्ययञ्जत ।।
यः कृष्णासदृशो वीर्ये युधिष्ठिरसमो दमे।
तेनाभिमन्युना सङ्ख्ये पाण्डवा अभ्ययुञ्जत ।।
यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः ।
दुःसहः समरे क्रुद्धः शैशुपालिर्महारथः ।।
तेन वश्चेदिराजेन पाण्डवा अभ्ययुञ्जत ।
अक्षौहिण्या परिवृतः पाण्डवान्योभिसंश्रितः ।।
यः संश्रयः पाण्डवानां देवानामिव वासवः।
तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत ।।
यथा चेदिपतेर्भ्राता शरभो भरतर्षभ।
करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत ।।
तारासन्धिः सहदेवो जयत्सेनश्च तावुभौ ।
युद्धे प्रतिरथे वीरौ पाण्डवार्थे व्यवस्थितौ ।।
द्रुपदश्च महातेजा बलेन महता वृतः।
त्यक्तात्मा पाण्डवार्थाय सोत्स्यमानो व्यवस्थितः।।
एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः।
शतशो यानुपाश्रिता धर्मराजो व्यवस्थितः ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि पञ्चशोऽध्यायः ।।