उद्योगपर्व
अध्यायः ५२
धृतराष्ट्र उवाच।
यस्य वै नानृता वाचः कदाचिदनुशुश्रुम ।
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः ।।
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः।
अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम् ।।
अस्यतः कर्णिनालीकान्मार्गणान्हृदयच्छिदः।
प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः ।।
द्रोणाकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ ।
कृतास्त्रौ बलिनां श्रेष्ठौ समरेष्वपराजितौ ।।
महान्स्यात्संशयो लोके न त्वस्ति विजयो मम।
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः ।।
समर्थो बलवान्पार्थो दृढधन्वा जितक्लमः ।
भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजयः ।।
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः ।
अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम् ।।
वधे नूनं भवेच्छान्तिस्तयोर्वा फाल्गुनस्य च।
न तु हन्तार्जुनस्यास्ति जेता चास्य न विद्यते ।।
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति य उत्थितः ।
अन्येऽप्यस्त्राणि जानन्ति जीयन्ते च जयन्ति च।
एकान्तविजयस्त्वेव श्रूयते फाल्गुनस्य ह ।।
त्रयस्त्रिंशत्समाहूय खाण्डवेऽग्निमतर्पयत्।
जिगाय च सुरान्सर्वान्नास्य विद्मः पराजयम् ।।
यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि।
ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा ।।
कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः।
युगपत्रीणि तेजांसि समेतान्यनुशुश्रुम ।।
नैवास्ति नो धनुस्तदृङ्व योद्धा न च सारथिः ।
तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः ।
शेषयेदशनिर्दीप्तो विपतन्मूर्ध्नि सञ्जय।
न तु शेषं शरास्तात कुर्युरस्ताः किरीटिना ।।
अपि चास्यन्निवाभाति निघ्नन्निव धनञ्जयः ।
उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः ।।
अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः ।
गाण्डीवोत्थं दहेताजौ पुत्राणां मम वाहिनी ।।
अपि सा रथघोषेण भयार्ता सव्यसाचिनः ।
वित्रस्ता बहुधा सेना भारती प्रतिभाति मे ।।
यथा कक्षं महानग्निः प्रदहेत्सर्वतश्चरन्।
महार्चिरनिलोद्धूतस्तद्वद्धक्ष्यति मामकान् ।।
यदोद्वमन्निशितान्बाणसङ्घां-
स्तानाततायी समरे किरीटी।
सृष्टोऽन्तकः सर्वहरो विधात्रा
यथा भवेत्तद्वदपारणीयः ।।
यदा हयभीक्ष्णं सुबुहून्प्रकारान्
श्रोतास्मि तानावसथे कुरूणाम्।
तेषां समन्ताच्च तथा रणाग्रे
क्षयः किलायं भरतानुपैति ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि द्विपञ्चाशोऽध्यायः ।।