उद्योगपर्व

अध्यायः ४९

Udyoga Parva (Sanskrit) · Adhyaya 49
अक्षर का आकार

वैशंपायन उवाच।

समवेतेषु सर्वेषु तेषु राजसु भारत।
दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ।।

बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ।
मरुतश्च सहेन्द्रेण वसवश्चाग्रिना सह ।।

आदित्याश्चैव साध्याश्च ये च सप्तर्पयो दिवि।
विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः ।।

नमस्कृत्योपजग्मुस्ते लोकवृद्धं पितामहम् ।
परिवार्य च विश्वेशं पर्यासत दिवौकसः ।।

तेषां मनश्च तेजश्चाप्याददानाविवौजसा ।
पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी ।।

बृहस्पतिस्तु पप्रच्छ ब्रह्माणं काविमाविति।
भवन्तं नोपतिष्ठेते तौ नः शंस पितामह ।।

ब्रह्मोवाच।

यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ।
ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ ।।

नरनारायणावेतौ लोकाल्लोकं समास्थितौ ।
ऊर्जितौ स्वेन तपसा महासत्वपराक्रमौ ।।

एतौ हि कर्मणा लोकं नन्दयामासतुर्ध्रुवम् ।
द्विधाभूतौ महाप्राज्ञौ विद्धि ब्रह्मन्परन्तपौ ।
असुराणां विनाशाय देवगन्धर्वपूजितौ ।।

वैशंपायन उवाच।

जगाम शक्रस्तच्छ्रत्वा यत्र तौ तेपतुस्तपः ।
सार्धं देवगणैः सर्वैर्बृहस्पतिपुरोगमैः ।।

तदा देवासुरे युद्धे भये जाते दिवौकसाम्।
अयाचत महात्मानौ नरनारायणौ वरम् ।।

तावब्रूतां वृणीष्वेति तदा भरतसत्तम।
अथैतावब्रवीच्छकः साह्यं नः क्रियतामिति ।।

ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि।
ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान् ।।

नर इन्द्रस्य संग्रामे हत्वा शत्रून्परन्तपः ।
पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च ।।

एष भ्रान्ते रथे तिष्ठन्भल्लेनापाहरच्छिरः।
जम्भस्य ग्रसमानस्य तदा ह्यर्जुन आहवे ।।

एष पारे समुद्रस्य हिरण्यपुरमारुजत्।
हत्वा षष्टिं सहस्राणि निवातकवचान्रणे ।।

एष देवान्सहेन्द्रेण जित्वा परपुरञ्जयः।
अतर्पयन्महाबाहुरर्जुनो जातवेदसम् ।।

नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह।
एवमेतौ महावीर्यौ तौ पश्यत समागतौ ।।

वासुदेवार्जुनौ वीरौ समवेतौ महारथौ ।
नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः ।।

अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः ।
एष नारायणः कृष्णः फाल्गुनश्च नरः स्मृतः।
नारायणो नरश्चैव सत्त्वमेकं द्विधा कृतम् ।।

एतौ हि कर्मणा लोकानश्रुवातेऽक्षयान्ध्रुवान्।
तत्रतत्रैव जायेते युद्धकाले पुनःपुनः।।

तस्मात्कर्मैव कर्तव्यमिति होवाच नारदः ।
एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित् ।।

शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम्।
पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम् ।।

सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ।
दुर्योधन तदा तात स्मर्तासि वचनं मम ।।

नोचेदयमभावः स्यात्कुरूणां प्रत्युपस्थितः।
अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता ।।

न चेद्ग्रहीष्यसे वाक्यं श्रोतामि सुबहून्हतान्।
तवैव हि मतं सर्वे कुरवः पर्युपासते ।।

त्रयाणामेव च मतं तत्त्वमेकोऽनुमन्यसे।
रामेण चैव शप्तस्य कर्णस्य भरतर्षभ ।।

दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च।
तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च ।।

कर्ण उवाच।

नैवमायुष्मता वाच्यं यन्मामात्थ पितामह ।
क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान् ।।

किञ्चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे।
न हि मे वृजिनं किञ्चिद्धार्तराष्ट्रा विदुः क्वचित् ।।

नाचरं वृजिनं किञ्चिद्धार्तराष्ट्रस्य नित्यशः ।
अहं हि पाण्डवान्सर्वान्हनिष्यामि रणे स्थितान् ।।

प्राग्विरुद्धैः शमं सद्भिः कथं वा क्रियते पुनः।
राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया।
तथा दुर्योधनस्यापि स हि राज्ये समाहितः ।।

वैशंपायन उवाच।

कर्णस्य तु वचः श्रुत्वा भीष्मः शान्तनवः पुनः।
धृतराष्ट्रं महाराजमाभाष्येदं वचोऽब्रवीत् ।।

यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति।
नायं कलापि संपूर्णा पाण्डवानां महात्मनाम् ।।

अनयो योयमागन्ता पुत्राणां ते दुरात्मनाम् ।
तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः ।।

एतमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः ।
अवामन्यत तान्वीरान्देवपुत्रानरिन्दमान् ।।

किञ्चाप्येतेन तत्कर्म कृतपूर्वं सुदुष्करम्।
तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा।।

दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम्।
धनञ्जयेन विक्रम्य किमनेन तदा कृतम् ।।

` सर्वे ह्यस्त्रिविदः शूराः सर्वे प्राप्ता महद्यशः।
अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम् ।।'

सहितान्हि कुरून्सर्वानभियातो धनञ्जयः।
प्रमथ्य चाच्छिनद्वासः किमयं प्रोषितस्तदा ।।

गन्धर्वैर्घोषयात्रायां ह्रियते यत्सुतस्तव।
क्व तदा सूतपुत्रोऽभूद्य इदानीं वृषायते ।।

ननु तत्रापि भीमेन पार्थेन च महात्मना।
यमाभ्यामेव संगम्य गन्धर्वास्ते पराजिताः ।।

एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ ।
विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः ।।

वैशंपायन उवाच।

भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामताः।
धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन्।।

यदाह भरतश्रेष्ठो भीष्मस्तत्क्रियतां नृप ।
न काममवलिप्तानां वचनं कर्तुमर्हसि ।।

पुरा युद्धात्साधु मन्ये पाण्डवैः सह सङ्गतम्।
यद्वाक्यमर्जुनेनोक्तं सञ्जयेन निवेदितम् ।।

सर्वं तदभिजानामि करिष्यति च पाण्डवः।
न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः ।।

वैशंपायन उवाच।

अनादृत्य तु तद्वाक्यमर्थवद्द्रोणभीष्मयोः।
ततः स सञ्जयं राजा पर्यपृच्छत पाण्डवान्।।

तदैव कुरवः सर्वे निराशा जीवितेऽभवन् ।
भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि एकोनपञ्चाशोऽध्यायः ।।