उद्योगपर्व
अध्यायः ५
वैशंपायन उवाच।
द्रुपदेनैवमुक्ते तु वाक्ये वाक्यविदां वरः।
वसुदेवसुतस्तत्र पृष्णिसिंहोऽब्रवीदिदम् ।।
उपपन्नमिदं वाक्यं सोमकानां धुरंधरे।
अर्थसिद्धिकरं राज्ञः पाण्डवस्यामितौजसः ।।
एतच्च पूर्वं कार्यं नः सुनीतिमभिकाङ्क्षताम्।
अन्यथा ह्याचरन्कर्म पुरुषः स्यात्सुबालिशः ।।
किं तु संबन्धकं तुल्यमस्माकं कुरुपाण्डुषु।
यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च ।।
ते विवाहार्थमानीता वयं सर्वे तथा भवान् ।
कृते विवाहे मुदिता गमिष्यामो गृहान्प्रति ।।
भवान्वृद्धतमो राज्ञां वयसा च श्रुतेन च।
शिष्यवत्ते वयं सर्वे भवामेह न संशयः ।।
भवन्तं धृतराष्ट्रश्च सततं बहु मन्यते।
आचार्ययोः सखा चासि द्रोणस्य च कृपस्व च ।।
स भवान्प्रेषयत्वद्य पाण्डवार्थकरं वचः।
सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद्भवान् ।।
यदि तावच्छमं कुर्यन्न्यायेन कुरुपुङ्गवः।
न भवेत्कुरुपाण्डूनां सौभ्रात्रेण महान्क्षयः ।।
अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः ।
अन्येषां प्रेषयित्वा च पश्चादस्मान्सभाह्वये ।।
ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः ।
निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि ।।
वैशंपायन उवाच।
ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः ।
गृहान्प्रस्थापयामास सगणं सहबान्धवम् ।।
द्वारकं तु गते कृष्णे युधिष्ठिरपुरोगमाः।
चक्रुः साङ्घ्रामिकं सर्वं विराटश्च महीपतिः ।।
ततः संप्रेषयामास विराटः सह बान्धवैः ।
सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः ।।
वचनात्कुरुसिंहानां मत्स्यपाञ्चालयोश्च ते ।
समाजग्मुर्महीपालाः संप्रहृष्टा महाबलाः ।।
तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्बलम् ।
धृतराष्ट्रसुताश्चापि समानिन्युर्महीपतीन् ।।
समाकुला मही राजन्कुरुपाण्डवकारणात्।
तदा समभवत्कृत्स्ना संप्रयाणे महीक्षिताम् ।।
संकुला च तदा भूमिश्चतुरङ्गवलान्विता।
बलानि तेषां वीराणामागच्छन्ति ततस्ततः ।।
चालयन्तीव गां देवीं सपर्वतवनामिमाम्।
ततः प्रज्ञावयोवृद्धं पाञ्चाल्यः स्वपुरोहितम्।
कुरुभ्यः प्रेषयामास युधिष्ठिरमते स्थितः ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
सेनोद्येगपर्वणि प़ञ्चमोऽध्यायः ।।