उद्योगपर्व

अध्यायः ४

Udyoga Parva (Sanskrit) · Adhyaya 4
अक्षर का आकार

द्रुपद उवाच।

एवमेतन्महाबाहो भविष्यति न संशयः।
न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति ।।

अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः।
भीष्मद्रोणौ च कार्पण्यान्मौर्ख्याद्राधेयसौबलौ ।।

बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते।
एतद्धि पुरुषेणाग्रे कार्यं सुनयमिच्छता ।।

न तु वाच्यो मृदुवचो धार्तराष्ट्रः कथंचन ।
नहि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम ।।

गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत् ।
मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि ।।

मृदुं वै मन्यते पापो भाषमाणमशक्तिकम् ।
हितमर्थं न जानीयादबुद्धिर्मार्दवे सति ।।

एतच्चैव करिष्यामो यत्नश्च क्रियतामिह ।
प्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः ।।

शल्यस्य धृष्टकेतोश्च जयत्सेनस्य वा विभो ।
केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः ।।

स च दुर्योधनो नूनं प्रेषयिष्यति सर्वशः ।
पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदनम् ।।

तत्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने ।
महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः ।।

शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः ।
भगदत्ताय राज्ञे च पूर्वसागरवासिने ।।

अमितौजसे तथोग्राय हार्दिक्यायान्धकाय च।
दीर्घप्रज्ञाय शूराय रोचमानाय वा विभो ।।

आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवः ।
सेनजित्प्रतिबिन्ध्यश्च चित्रवर्मा सुवास्तुकः ।।

बाह्लीको मुञ्जकेशश्च चैद्याधिपतिरेव च।
सुपार्श्वश्च सुबाहुश्च पौरवश्च महारथः ।।

शकानां पह्लवानां कर्णवेष्टश्च पार्थिवः ।।
सुरारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः ।।

नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान् ।
दुर्जयो दन्तवक्रश्च रुक्मी च जनमेजयः ।।

आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः ।
भूरितेजा देवकश्च एकलव्यः सहात्मजैः ।।

कारूषकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान् ।
काम्भोजा ऋषिका ये च पश्चिमानूपकाश्च ये ।।

जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः ।।
जानकिश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः ।।

जानकिश्च सुशर्मा च मणिमान्योतिमत्सकः।
पांशुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान् ।।

तुण्डश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान्।
अपराजितो निषादश्च श्रेणिमान्वसुमानपि ।।

बृहद्बलो महौजाश्च बाहुः परपुरंजयः ।
समुद्रसेनो राजा च सह पुत्रेण वीर्यवान् ।।

उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः ।
श्रुतायुश्च दृढायुश्च साल्वपुत्रश्च वीर्यवान् ।।

कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः ।
एतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते ।।

अयं च ब्राह्मणो विद्वान्मम राजन्पुरोहितः।
प्रेष्यतां धृतराष्ट्राय वाक्यमस्मै प्रदीयताम् ।।

यथा दुर्योधनो वाच्यो यथा सान्तनवो नृपः ।
धृतराष्ट्रो यथा वाच्यो द्रोणश्च रथिनां वरः ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
सेनोद्योगपर्वणि चतुर्थोऽध्यायः ।।