उद्योगपर्व

अध्यायः ६

Udyoga Parva (Sanskrit) · Adhyaya 6
अक्षर का आकार

द्रुपद उवाच।

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः।
बुद्धिमत्सु नराः श्रेष्ठा नरेष्वपि द्विजातयः ।।

द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः ।।

स भवान्कृबुद्धीनां प्रधान इति मे मतिः ।
कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च।
प्रज्ञया सदृशश्चासि शुक्रेणाङ्गिरसेन च ।।

विदितं चापि ते सर्वं यथावृत्तः स कौरवः ।
पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः ।।

धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः ।
विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते ।।

शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत् ।
अनक्षज्ञं मताक्षः सन्क्षत्रवृत्ते स्थितं शुचिम् ।।

ते तथा वञ्चयित्वा तु धर्मराजं युधिष्ठिरम् ।
न कस्यांचिदवस्थायां राज्यं दास्यन्ति वै स्वयम् ।।

भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः ।
मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति ।।

विदुरश्चापि तद्वाक्यं साधयिष्यति तावकम्।
भीष्मद्रोणकृपादीनां भेदं संजनयिष्यति ।।

अमात्येषु च भिन्नेषु योधेषु विमुखेषु च।
पुनरेकत्र करणं तेषां कर्म भविष्यति ।।

एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रबुद्धयः।
सेनाकर्म करिष्यन्ति द्रव्याणां चैव सञ्चयम् ।।

भिद्यमानेषु च स्वेषु लम्बमाने तथा त्वयि।
न तथा ते करिष्यन्ति सेनाकर्म न संशयः ।।

एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते।
संगत्या धृतराष्ट्रश्च कुर्याद्धर्म्यं वचस्तव ।।

स भवान्धर्मयुक्तश्च धर्म्यं तेषु समाचरन् ।
कृपालुषु परिक्लेशान्पाण्डवीयान्प्रकीर्तयन् ।।

वृद्धेषु कुलधर्मं च ब्रुवन्पूर्वैरनुष्ठितम् ।
विभेत्स्यति मनांस्येषमिति मे नात्र संशयः ।।

न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित् ।
दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः ।।

स भवान्पुष्ययोगेन मुहूर्तेन जयेन च।
कौरवेयान्प्रयात्वाशु कौन्तेयस्यार्थसिद्धये ।।

वैशंपायन उवाच।

तथाऽनुशिष्टः प्रययौ द्रुपदेन महात्मना।
पुरोधा वृत्तसंपन्नो नगरं नागसाह्वयम् ।।

शिष्यैः परिवृतो विद्वान्नीतिशास्त्रार्थकोविदः ।
पाण्डवानां हितार्थाय कौरवान्प्रतिजग्मिवान् ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
सेनोद्योगपर्वणि षष्ठोऽध्यायः ।।