उद्योगपर्व
अध्यायः ३
सात्यकिरुवाच।
यादृशः पुरुषस्यात्मा तादृशं संप्रभाषते।
यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषते ।।
सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा।
उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति ।।
एकस्मिन्नेव जायेते कुले क्लीबमहाबलौ ।
फलाफलवती शाखे यथैकस्मिन्वनस्पतौ ।।
नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज।
ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव ।।
कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन्।
लभते परिषन्मध्ये व्याहर्तुमकुतोभयः।।
समाहूय महात्मानं जितवन्तोऽक्षकोविदाः।
अनक्षज्ञं यथाऽश्रद्धं तेषु धर्मजयः कुतः।
यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह ।
अभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत् ।।
समाहूय तु राजानं क्षत्रधर्मरतं सदा।
निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम् ।।
कथं प्रणिपतेच्चायमिह कृत्वा पणं परम्।
वनवासाद्विमुक्तरतु प्राप्तः पैतामहं पदम् ।।
यद्ययं परवित्तानि कामयेत युधिष्ठिरः।
एवमप्ययमत्यन्तं परान्नार्हति याचितुम् ।।
कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः।
निवृत्तवनवासांस्तान्य आहुर्विदिता इति ।।
अनुनीता हि भीष्मेण द्रोणेन विदुरेण च।
न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु ।।
अहं तु ताञ्छितैर्बाणैरनुनीय रणे बलात्।
पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः ।।
अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः।
गमिष्यन्ति सहामात्या यमस्य सदनं प्रति।।
न हि ते युयुधानस्य संरब्धस्य युयुत्सतः।
वेगं समर्थाः संसोद्धुं वज्रस्येव महीधराः ।।
को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि ।
मां चापि विषहेत्क्रुद्धं कश्च भीमं दुरासदम् ।।
यमौ च दृढधन्वानौ यमकल्पौ महाद्युती।
विराटद्रुपदौ वीरौ यमकालोपमद्युती।।
को जिजीविषुरासादेद्धृष्टद्युम्नं च पार्षतम्।
पञ्चैतान्पाण्डवेयांस्तु द्रौपद्याः कीर्तिवर्धनान् ।।
समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान् ।
सौभद्रं च महेष्वासममरैरपि दुःसहम् ।।
गदप्रद्युम्नसाम्बांश्च कालसूर्यानलोपमान्।
ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह ।।
कर्णं चैव निहत्याजावभिषेक्ष्याम पाण्डवम् ।
नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाऽऽततायिनः ।।
अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम्।
हृद्भतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः ।।
धार्तराष्ट्रो ह्ययुद्धेन न राज्यं दातुमिच्छति।
अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः।
निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
सेनोद्योगपर्वणि तृतीयोऽध्यायः ।।