उद्योगपर्व

अध्यायः १८९

Udyoga Parva (Sanskrit) · Adhyaya 189
अक्षर का आकार

भीष्म उवाच।

चकार यत्नं द्रुपदः सुतायाः सर्वकर्मसु।
ततो लेख्यादिषु तथा शिल्पेषु च परंतप ।।

इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह।
तस्य माता महाराज राजानं वरवर्णिनी ।।

चोदयामास भार्यार्थं कन्यायाः पुत्रवत्तदा ।
ततस्तां पार्षतो दृष्ट्वा कन्यां संप्राप्तयौवनाम् ।
स्त्रियं मत्वा ततश्चिन्तां प्रपेदे सह भार्यया ।।

द्रुपद उवाच।

कन्या ममेयं संप्राप्ता यौवनं शोकवर्धिनी ।
मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः ।।

भार्योवाच।

न तन्मिथ्या महाराज भविष्यति कथंचन ।
त्रैलोक्यकर्ता कस्माद्धि वृथा वक्तुमिहार्हति ।।

यदि ते रोचते राजन्वक्ष्यामि श्रृणु मे वचः।
श्रुत्वेदानीं प्रपद्येथाः स्वां मतिं पृषतात्मज ।।

क्रियतामस्य यत्नेन विधिवद्दारसंग्रहः ।
भविता तद्वचः सत्यमिति मे निश्चिता मतिः ।।

ततस्तौ निश्चयं कृत्वा तस्मिन्कार्येऽथ दंपती ।
वरयाञ्चक्रतुः कन्यां दशार्णाधिपतेः सुताम् ।।

ततो राजा द्रुपदो राजसिंहः
सर्वान्राज्ञः कुलतः सन्निशाम्य।
दाशार्णकस्य नृपतेस्तनूजां
शिखण्डिने वरयामास दारान् ।।

हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः।
स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने ।।

स च राजा दशार्णेषु महानासीत्सुदुर्जयः।
हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः ।।

कृते विवाहे तु तदा सा कन्या राजसत्तम।
यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी ।।

कृतदारः शिखण्डी च काम्पिल्यं पुनरागमत्।
न च सा वेद तां कन्यां कंचित्कालं स्त्रियं किल।
यदा त्वेनामजानात्सा स्त्रियमेव नृपात्मजा ।।

धात्रीणां च सखीनां च व्रीडयाना न्यवेदयत् ।
कन्यां पाञ्चालराजस्य सुतां तां वै शिखण्डिनीम् ।।

ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा।
जग्मुरार्ति परां प्रेष्याः प्रेषयामासुरेव च ।।

ततो दशार्णाधिपतेः प्रेष्याः सर्वा न्यवेदयन् ।
विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः ।।

शिखण्ड्यपि महाराज पुंवद्राजकुले तदा।
विजहार म्रुदा युक्तः स्त्रीत्वं नैवातिरोचयन् ।।

ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ ।
हिरण्यवर्मा राजेन्द्र रोषादर्तिं जगाम ह ।।

ततो दाशार्णको राजा तीव्रकोपसमन्वितः ।
दूतं प्रस्थापयामास द्रुपदस्य निवेशनम् ।।

ततो द्रुपदमासाद्य दूतः काञ्चनवर्मणः।
एक एकान्तसुत्सार्य रहो वचनमब्रवीत् ।।

दाशार्णराजो राजंस्त्वामिदं वचनमब्रवीत् ।
अभिष्गात्प्रकुपितो विप्रलब्धस्त्वयाऽनघ ।।

अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव।
यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि ।।

तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते ।
एष त्वं सजनामात्यमुद्धरामि स्थिरो भव ।।

अवमत्य च वीर्यं मे कुलं चारित्रमेव च ।
विप्रलम्भस्त्वयापूर्वो मनुष्येषु प्रवर्तितः ।।

कुरु सर्वाणि कार्याणि भुङ्क्ष्व कभोगाननुत्तमान्।
अभियास्यामि शीघ्रं त्वां समुद्धर्तुं सबान्धवम् ।।

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
एकोननवत्यधिकशततमोऽध्यायः ।।