उद्योगपर्व
अध्यायः १८८
दुर्योधन उवाच।
कथं शिखण्डी गाङ्गेय कन्यां भूत्वा पुरा तदा।
पुरुषोऽभूद्युधिश्रेष्ठ तन्मे ब्रूहि पितामह ।।
भीष्म उवाच।
भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः।
महिषी दयिता ह्यासीदपुत्रा च विशांपते ।।
एतस्मिन्नेव काले तु द्रुपदो वै महीपतिः।
अपत्यार्थे महाराज तोषयामास शङ्करम् ।।
अस्माद्वधार्थं निश्चित्य तपो घोरं समास्थितः।
ऋते कन्यां महादेव पुत्रो मेस्यादिति ब्रुवन् ।।
भगवन्पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया ।
इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति ।।
निवर्तस्व महीपाल नैतञ्जात्वन्यथा भवेत् ।
स तु गत्वा च नगरं भार्यामिदमुवाच ह ।।
कृतो यत्नो महादेवस्तपसाऽऽराधितो मया ।
कन्या भूत्वा पुमान्भावी इति चोक्तोस्मि शंभुना ।।
पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः ।
नतदन्यच्च भविता भवितव्यं हि तत्तथा ।।
ततः सा नियता भूत्वा ऋतुकाले मनस्विनी ।
पत्नी द्रुपदराजस्य द्रुपदं प्रविवेश ह ।।
लेभे गर्भं यथाकालं विधिदृष्टेन कर्मणा ।
पार्षतस्य महीपाल यथा मां नारदोऽब्रवीत् ।।
ततो दधार सा देवी गर्भं राजीवलोचना ।
तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन ।।
पुत्रस्नेहान्महाबाहुः मुखं पर्यचरत्तदा ।
सर्वानभिप्रायकृतान्भार्याऽलभत कौरव ।।
अपुत्रस्य सतो राज्ञो द्रुपदस्य महीपतेः ।
यथाकालं तु सा देवी महिषी द्रुपदस्य ह ।।
कन्यां प्रवररूपां तु प्राजायत नराधिप ।
अपुत्रस्य तु राज्ञः सा द्रुपदस्य मनस्विनी ।।
ख्यापयामास राजेन्द्र पुत्रो ह्येष ममेति वै।
ततः स राजा द्रुपद प्रच्छन्नाया नराधिप ।।
पुत्रवत्पुत्रकार्याणि सर्वाणि समकारयत् ।
रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा।।
चकार सर्वयत्नेन ब्रुवणा पुत्र इत्युत ।
न च तां वेदक नगरे कश्चिदन्यत्र पार्षतात् ।।
श्रद्दधानो हि तद्वाक्यं देवस्याच्युततेजसः।
छादयामास तां कन्यां पुमानिति च सोब्रवीत् ।।
जातकर्माणि सर्वाणि कारयामास पार्थिवः।
पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः ।।
अहमेकस्तु चारेण वचनान्नारदस्य च।
ज्ञातवान्देववाक्येन अम्बायास्तपसा तथा ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
अष्टाशीत्यधिकशततमोऽध्यायः ।।