उद्योगपर्व
अध्यायः १९०
भीष्म उवाच।
एवमुक्तस्य दूतेन द्रुपदस्य तदा नृप।
चोरस्येव गृहीतस्य न प्रावर्तत भारती ।।
स यत्नमकरोत्तीव्रं संबन्धिन्युनुमानने ।
दूतैर्मधुरसंभाषैर्न तदस्तीति संदिशन् ।।
स राजा भूय एवाथ ज्ञात्वा तत्त्वमथागमत् ।
कन्येति पाञ्चालसुतां त्वरमाणो विनिर्ययौ ।।
ततः संप्रेषकयामास मित्रांणाममितौजसाम् ।
दुहितुर्विप्रलम्भं तं धात्रीणां वचनात्तदा ।।
ततः समुदयं कृत्वा बलानां राजसत्तमः ।
अभियाने मतिं चक्रे द्रुपदं प्रति भारत ।।
ततः संमन्त्रयामास मन्त्रिभिः स महीपतिः ।
हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति ।।
तत्र वै निश्चितं तेषामभूद्राज्ञां महात्मनाम् ।
तथ्यं भवति चेदेतत्कन्या राजञ्शिखण्डिनी ।।
बद्ध्वा पाञ्चालराजानमानयिष्यामहे गृहम् ।
अन्यं राजानमाधाय पाञ्चालेषु नरेश्वरम् ।।
घातयिष्याम नृपतिं पाञ्चालं सशिखण्डिनम् ।।
स तदा द्रुतमाज्ञाय पुनर्दूतान्नराधिपः।
प्रास्थापयत्पार्षतया निहन्मीति स्थिरो भव ।।
भीष्म उवाच।
स हि प्रकृत्या वै भीतः किल्बिषी च नराधिपः ।
भयं तीव्रमनुप्राप्तो द्रुपदः पृथिवीपतिः ।।
विसृज्य दूतान्दाशार्णे द्रुपदः शोकमूर्च्छितः ।
समेत्य भार्यां रहिते वाक्यमाह नराधिपः ।।
भयेन महताऽऽविष्टो हृदि शोकेन चाहतः ।
पाञ्चालराजो दयितां मातरं वै शिखण्डिनः ।।
अभियास्यति मां कोपात्संबन्धी सुमहाबलः ।
हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम् ।।
किमिदानीं करिष्यावो मूढौ कन्यामिमां प्रति।
शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः ।।
इति संचिन्त्य यत्नेन समित्रः सबलानुगः ।
वञ्चितोऽस्मीति मन्वानो मां किलोद्धर्तुमिच्छति।।
किमत्र तथ्यं सुश्रोणि मिथ्या किं ब्रूहि शोभने ।
श्रुत्वा त्वत्तः शुभं वाक्यं संविधास्याम्यहं तथा ।।
अहं हि संशयप्राप्तो बाला चेयं शिखण्डिनी ।
त्वं च राज्ञि महत्कृच्छ्रं संप्राप्ता वरवर्णिनि ।।
सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः।
तथा विदध्यां सुश्रोणि कृत्यमाशु शुचिस्मिते ।।
शिखण्डिनि च मा भैस्त्वं विधास्ये तत्र तत्त्वतः ।
कृपयाहं वरारोहे वञ्चितः पुत्रधर्मतः ।।
मया दाशार्णको राजा वञ्चितः स महीपतिः ।
तदाचक्ष्व महाभागे विधास्ये तत्र यद्धितम् ।।
जनाता ह नरेन्द्रेण ख्यापनार्थं परस्य वै ।
प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम् ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
नवत्यधिकशततमोऽध्यायः ।।