उद्योगपर्व
अध्यायः १८७
भीष्म उवाच।
ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम्।
दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन् ।।
तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा ।
निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः ।।
वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः ।
निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः ।।
यत्कृते दुःखवसतिमिमां प्राप्तऽस्मि शाश्वतीम् ।
पतिलोकाद्विहीना च नैव स्त्री न पुमानिह ।।
नाहत्वा युधि गाङ्गेयं निवर्तिष्ये तपोधनाः ।
एष मे हृदि संकल्पो यदिदं कथितं मया ।।
स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया ।
भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः ।।
तां देवो दर्शयामास शूलपाणिरुमापतिः ।
मध्ये तेषां महार्षीणां स्वेन रूपेण तापसीम् ।।
छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम् ।
हनिष्यसीति तां देवः प्रत्युवाच मनस्विनीम् ।।
ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह।
उपपद्येत्कथं देव स्त्रिया युधि जयो मम ।।
स्त्रीभावेन च मे गाढं मनः शान्तमुमापते ।
प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः ।।
यथा स सत्यो भवति तथा कुरु वृषध्वज ।
यथा हन्यां समागम्य भीष्मं शान्तनवं युधि ।।
तामुवाच महादेवः कन्यां किल वृषध्वजः ।
न मे वागमृतं प्राह सत्यं भद्रे भविष्यसि ।।
हनिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यति ।।
स्मरिष्यसि च तत्सर्वं देहमन्यं गता सती ।।
द्रुपदस्य कुले जाता भविष्यसि महारथः।
शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसंमतः ।।
यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति।
भविष्यसि पुमान्पश्चात्कस्माच्चित्कालपर्ययात् ।।
एवमुक्त्वा महादेवः कपर्दी वृषभध्वजः।
पश्यतामेव विप्राणां तत्रैवान्तरधीयत ।।
ततः सा पश्यतां तेषां महर्षीणामनिन्दिता ।
समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी ।।
चितां कृत्वा सुमहतीं प्रदाय च हुताशनम् ।
प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा ।।
उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम् ।
ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम् ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
सप्ताशीत्यधिकशततमोऽध्यायः ।।