उद्योगपर्व
अध्यायः १८६
राम उवाच।
प्रत्यक्षमेतल्लोकानां सर्वेषामेव भामिनि ।
यथाशक्त्या मया युद्धं कृतं वै पौरुषं परम् ।।
न चैवमपि शक्नोमि भीष्मं शस्त्रभृतां वरम् ।
विशेषयितुमत्यर्थमुत्तमास्त्राणि दर्शयन् ।।
एषा मे परमा शक्तिरेतन्मे परमं बलम् ।
यथेष्टं गम्यतां भद्रे किमन्यद्वा करोमि ते ।।
भीष्ममेव प्रपद्यस्व न तेऽन्या विद्यते गतिः ।
निर्जितो ह्यस्मि भीष्मेण महास्त्राणि प्रमुञ्चता ।।
एवमुक्त्वा ततो रामो विनिःश्वस्य महामनाः ।
तूष्मीमासीत्ततः कनक्या प्रोवाच भृगुनन्दनम् ।।
भगवन्नेवमेवैतद्यथाऽऽह भगवांस्तथा ।
अजेयो युधि भीष्मोऽयमपि देवैरुदारधीः ।।
यथाशक्ति यथोत्साहं मम कार्यं कृतं त्वया ।
अनिवार्यं रणे वीर्यमस्त्राणि विविधानि च ।।
ने चैव शक्यते युद्धे विशेषयितुमन्ततः ।
न चाहमेनं यास्यामि पुनर्भीष्मं कथंचन ।।
गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन ।
समरे पातयिष्यामि स्वयमेव भृगूद्वह ।।
एवमुक्त्वा ययौ कन्या रोषव्याकुललोचना ।
तापस्ये धृतसंकल्पा सा मे चिन्तयती वधम् ।।
ततो महेन्द्रं सहितैरमुनिभिर्भृगुसत्तमः ।
यथाऽऽगतं तथा सोऽगन्मामुपामन्त्र्य भारत ।।
ततो रथं समारुह्य स्तूयमानो द्विजातिभिः ।
प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम् ।।
यथावृत्तं महाराज सा च मां प्रत्यनन्दत।
पुरुषांश्चादिशं प्राज्ञान्कन्यावृत्तान्तकर्मणि ।।
दिवसे दिवसे ह्यस्या गतिजल्पितचेष्टितम् ।
प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते सदा ।।
यदैव हि वनं प्रायात्सा कन्या तपसे धृता।
तदैव व्यथितो दीनो गतचेता इवाभवम् ।।
न हि मां क्षत्रियः कश्चिद्वीर्येण व्यजयद्युधि ।
ऋते ब्रह्मविदस्तात तपसा संशितव्रतात् ।।
अपि चैतन्मया राजन्नारदेऽपि निवेदितम् ।
व्यासे चैव तथा कार्यं तौ चोभौ मामवोचताम् ।।
न विषादस्त्वया कार्यो भीष्म काशिसुतां प्रति।
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् ।।
सा कन्या तु महाराज प्रविश्याश्रममण्डलम् ।
यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम् ।।
निराहारा कृशा रूक्षा जटिला मलपङ्किनी ।
षण्मासान्वायुभक्षा च स्थाणुभूता तपोधना ।।
यमुनाजलमाश्रित्य संवत्सरमथाऽपरम् ।
उदवासं निराहारा पारयामास भामिनी ।।
शीर्णपर्णेन चैकेन पारयामास सा परम् ।
संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता ।।
एवं द्वादश वर्षाणि तापयामास रोदसी ।
निवर्त्यमानापि च सा ज्ञातिभिर्नैव शक्यते ।।
ततोऽगमद्वत्सभूमिं सिद्धचारणसेविताम् ।
आश्रमं पुण्यशीलानां तापसानां महात्मनाम् ।।
तत्र पुण्येषु तीर्थेषु साऽऽप्लुताङ्गी दिवानिशम् ।
व्यचरत्काशिकन्या सा यथाकामविचारिणी ।।
नन्दाश्रमे महाराज तथोलूकाश्रमे शुभे ।
च्यवनस्याश्रमे चैव ब्रह्मणः स्थान एव च ।।
त्रयागे देवयजने देवारण्येषु चैव ह ।
भोगवत्यां महाराज कौशिकस्याश्रमे तथा ।।
माण्डव्यस्याश्रमे राजन्दिलीपस्याश्रमे तथा ।
रामह्रदे च कौरव्य पैलगर्गस्य चाश्रमे ।।
एतेषु तीर्थेषु तदा काशिकन्या विशांपते ।
आप्लावयत गात्राणि व्रतमास्थाय दुष्करम् ।।
तामब्रवीच्च कौरव्य मम माता जले स्थिता ।
किमर्थं क्लिश्यसे भद्रे तथ्यमेव वदस्व मे ।।
सैनामथाब्रवीद्राजन्कृताञ्जलिरनिन्दिता
भीष्मेण समरे रामो निर्जितश्चारुलोचनि ।।
कोऽन्यस्तमुत्सहेञ्जेतुमुद्यतेषुं महीपतिः ।
साहं भीष्मविनाशाय तपस्तप्स्ये सुदारुणम् ।।
विचरामि महीं देवि यथा हन्यामहं नृपम् ।
एतद्व्रतफलं देवि परमस्मिन्यथा हि मे ।।
ततोऽब्रवीत्सागरगा जिह्मं चरसि भामिनि।
नैष कामोऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाऽबले ।।
यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम्।
व्रतस्था च शरीरं त्वं यदि नाम विमोक्ष्यसि ।।
नदी भविष्यसि शुभे कुटिला वार्षिकोदका।
दुस्तीर्था न तु विज्ञेया वार्षिकी नाष्टमासिकी ।।
भीमग्राहवती घोरा सर्वभूतभयंकरी ।
एवमुक्त्वा ततो राजन्काशिकन्यां न्यवर्तत ।।
माता मम महाभागा स्मयमानेव भामिनी ।
कदाचिदष्टमे मासि कदाचिद्दशमे तथा।
न प्राश्नीतोदकमपि पुनः सा वरवर्णिनी ।।
सा वत्सभूमिं कौरव्य तीर्थलोभात्ततस्ततः ।
पतिता परिधावन्ती पुनः काशिपतेः सुता ।।
सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत ।
वार्षिकी ग्राहबहुला दुस्तीर्था कुटिला तथा ।।
सा कन्या तपसा तेन देहार्धेन व्यजायत ।
नदी च राजन्वत्सेषु कन्या चैवाभवत्तदा ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
षडशीत्यधिकशततमोऽध्याय- ।।