उद्योगपर्व
अध्यायः १६८
भीष्म उवाच।
अचलो वृषकश्चैव सहितौ भ्रातरावुभौ ।
रथौ तव दुराधर्षौ शत्रून्विध्वंसयिष्यतः ।।
बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ।
गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ ।।
सखा ते दयितो नित्यं य एष रणकर्कशः ।
उत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह ।।
परुषः कत्थनो नीचः कर्णो वैकर्तनस्त्रव ।
मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः ।।
एष नैव रथः पूर्णो न चाप्यतिरथो रणे ।
वियुक्तः कवचेनैष सहजेन विचेतनः ।।
कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी ।
अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात् ।।
करणानां वियोगाच्च तेन मेऽर्थरथो मतः।
नैष फाल्गुनमासाद्य पुनर्जीवन्विमोक्ष्यते।।
ततोऽब्रवीत्पुनर्द्रोणः सर्वशस्त्रभृतां वरः।
एवमेतद्यथाऽऽत्थ त्वं न मिथ्यास्ति कदाचन ।।
रणेरणेऽभिमानी च विमुखश्चापि दृश्यते।
घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः ।।
संजय उवाच।
एतच्छ्रुत्वा तु राधेयः क्रोधादुल्फाल्य लोचने ।
उवाच भीष्मं राधेयस्तुदन्वाग्भिः प्रतोदवत् ।।
पितामह यथेष्टं मां वाक्शरैरुपकृन्तसि ।
अनागसं सदा द्वेषादेवमेव पदेपदे ।।
मर्षयामि च तत्सर्वं दुर्योधनकृतेन वै ।
त्वं तुं मां मान्यसे मन्दं यथा कापुरुषं तथा ।।
भवानर्धरथो मह्यं मतो वै नात्र संशयः ।
सर्वस्य जगतश्चैव गाङ्गेयो न मृषा वदेत् ।।
कुरूणामहितो नित्यं न च राजाऽवबुध्यते ।
को हि नाम समानेषु राजसूदारकर्मसु ।।
तेजोवधमिमं कुर्याद्विभेदयिषुराहवे ।
यथा त्वं गुणविद्वेषादपरागं चिकीर्षसि ।।
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः ।
महारयत्वं संख्यातुं शक्यं क्षत्रस्य कौरव ।।
बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः ।
धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाऽधिकाः ।।
यथेच्छकं स्वयं ब्रूया रथानतिरथांस्तथा।
कामद्वेषसमायुक्तो मोहात्प्रकुरुते भवान् ।।
दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम्।
त्यज्यतां दुष्टभावोऽयं भीष्मः किल्बिषकृत्तव ।।
भिन्ना हि सेना नृपते दुःसन्धेया भवत्युत।
मौला हि पुरुषव्याघ्र किमु नानासमुत्थिताः ।।
एषां द्वैधं समुत्पन्नं योधानां युधि भारत।
तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः ।।
रथानां क्वच विज्ञानं क्वच भीष्मोऽल्पचेतनः ।
अहमावारयिष्यामि पाण्डवानामनीकिनीम् ।।
आसाद्य माममोघेषुं गमिष्यन्ति दिशो दश।
पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव ।।
क्वच युद्धं विमर्दो वा मन्त्रे सुव्याहृतानि च।
क्वचभीष्मो गतवयामन्दात्मा कालचोदितः ।।
एकाकी स्पर्धति नित्यं सर्वेण रमता सह ।
न चान्यं पुरुषं कंचिन्मन्यते मोघदर्शनः ।।
श्रोतव्यं खलु वृद्धानमिति शास्त्रनिदर्शनम् ।
न त्वेव ह्यतिवृद्धानां पुनर्बालाहि ते मताः ।।
अहमेको हनिष्यामि पाण्डवानानीकिनीम् ।
सुयुद्धे राज्यशार्दूल यशो भीष्मं गमिष्यति ।।
कृतः सेनापतिस्त्वेष त्वया भीष्मो नराधिप।
सेनापतौ यशो गन्ता न तु योधान्कथञ्चन ।।
नाहं जीवति गाङ्गेये योत्स्ये राजन्कथञ्चन।
हते भीष्मे तु योद्धाऽस्मि सर्वैरेव महारथैः ।।
भीष्म उवाच।
समुद्यतोयं भारो मे सुमहान्सागरोपमः।
धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः ।।
तस्मिन्नभ्यागते काले प्रतप्ते रोमहर्षणे ।
मिथो भेदो न मे कार्यस्तेन जीवसि सूतज ।।
न ह्यहं त्वद्य विक्रम्य स्थविरोऽपि शिशोस्तव।
युद्धश्रद्धामहं छिन्द्यां जीवितस्य च सूतज ।।
जामदग्र्येन रामेण महास्त्राणि विमुञ्चता।
न मे व्यथा कृता काचित्त्वं तु मे कि करिष्यसि ।।
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम्।
वक्ष्यामि तु त्वां सन्तप्तो निहीन कुलपांसन ।।
समेतं पार्थिवं क्षत्रं काशिराजस्वयंवरे ।
निर्जित्यैकरथेनैव याः कन्यास्तरसाहृताः ।।
ईदृशानां सहस्राणि विशिष्टानामथो पुनः ।
मयैकेन निरस्तानि ससैन्यानि रणाजिरे ।।
त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान्।
उपस्थितो विनाशाय यतस्व पुरुषो भव ।।
युध्यस्व समरे पार्थं येन विस्पर्धसे सह ।
द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात्सुदुर्मते ।।
तमुवाच ततो राजा धार्तराष्ट्रः प्रतापवान् ।
मां समीक्षस्व गाङ्गेय कार्यं हि महदुद्यतम् ।।
चिन्त्यतामिदमेकाग्रं मम निःश्रेयसं परम्।
उभावपि भवन्तौ मे महत्कर्म करिष्यतः ।।
भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान् ।
ये चैवातिथास्तत्र ये चैव रथयूथपाः ।।
बलाबलममित्राणां श्रोतुमिच्छामि कौरव ।
प्रभातायां रजन्यां वै इदं युद्धं भविष्यति ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि रथातिरथसंख्यानपर्वणि
अष्टषष्ट्यधिकशततमोऽध्यायः ।।