उद्योगपर्व
अध्यायः १६७
भीष्म उवाच।
शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप।
प्रयुज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः ।।
एतस्य सेना दुर्धर्षा समरे प्रतियायिनः।
विकृतायुधभूयिष्ठा वायुवेगसमा जवे ।।
द्रोणपुत्रो महेष्वासः सर्वानेवातिधन्विनः ।
समरे चित्रयोधी च दृढास्त्रश्च महारथः ।।
एतस्य हि महाराज यथा गाण्डीवधन्वनः।
शरासनविनिर्मुक्ताः संसक्ता यान्ति सायकाः ।।
नैष शक्यो मया वीरः संख्यातुं रथसत्तमः ।
निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महारथः ।।
क्रोधस्तेजश्च तपसा संभृतोश्रमवासिनाम् ।
द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः ।।
दोषस्त्वस्य महानेको येनैव भरतर्षभ ।
न मे रथो नातिरथो मतः पार्थिवसत्तम ।।
जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः ।
न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि ।।
हन्यादेकरथेनैव देवानामपि वाहिनीम् ।
वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान् ।।
असंख्येयगुणो वीरः प्रहन्ता दारुणद्युतिः।
दण्डपाणिरिवासह्यः कालवत्प्रचरिष्यति ।।
युगान्ताग्निसमः क्रोधात्सिंहग्रीवो महाद्युतिः ।
एष भारत युद्धस्य पृष्ठं संशयमिष्यति ।।
पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः ।
रणे कर्म महत्कर्ता अत्र मे नास्ति संशयः ।।
अस्त्रवेगानिलोद्भूतः सेनाकक्षेन्धनोत्थितः ।
पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति रणे धृतः ।।
रथयूथपयूथानां यूथपोऽय नरर्षभः ।
भरद्वाजात्मजः कर्ता कर्म तीव्रं हितं तव ।।
सर्वमूर्धाभिषिक्तानामाचार्यः स्थविरो गुरुः ।
गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनञ्जयः ।।
नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम् ।
हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम् ।।
श्लाघते यं सदा वीर पार्थस्य गुणविस्तरैः ।
पुत्रादभ्यधिकं चैनं भारद्वाजोऽनुपश्यति ।।
हन्यादेकरथेनैव देवगन्धर्वमानुषान् ।
एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान् ।।
पौरवो राजशार्दूलस्तव राजन्महारथः ।
मतो मम रथोदारः परवीररथारुजः ।।
स्वेन सैन्येन महता प्रतपञ्शत्रुवाहिनीम्।
प्रधक्ष्यति स पाञ्चालान्कक्षमग्निगतिर्यथा ।।
सत्यश्रवा रथस्त्वेको राजपुत्रो बृहद्बलः।
तव राजन्रिपुबले कालवत्प्रचरिष्यति।।
एतस्य योधा राजेन्द्र विचित्रकवचायुधाः ।
विचरिष्यन्ति सङ्ग्रामे निन्घन्तः शास्त्रवांस्तव ।।
वृषसेनो रथस्तेऽग्र्यः कर्णपुत्रो महारथः ।
प्रधक्ष्यति रिपूणां ते बलं तु बलिनां वरः ।।
जघसन्धो महातेजा राजन्रथवरस्तव ।
त्यक्ष्यते समरे प्राणान्माधवः परवीरहा ।।
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः ।
रथेन वा माहबाहुः क्षपयञ्शत्रुवाहिनीम् ।।
रथ एष महाराज मतो मे राजसत्तम।
त्वदर्थे त्यक्ष्यते प्राणान्सहसैन्यो महारणे ।।
एष विक्रान्तयोधी च चित्रयोधी च संगरे ।
वीतभीश्चापि ते राजञ्शत्रुभिः सह योत्स्यते ।।
बाह्लीकोऽतिरथश्चैव समरे चानिवर्तनः ।
मम राजन्मतो युद्धे शूरो वैवस्वतोपमः ।।
न ह्येष समरं प्राप्य निवर्तेत कथञ्चन।
यथा सततगो राजन्स हि हन्यात्परान्रणे ।।
सेनापतिर्महाराज सत्यवांस्ते महारथः ।
रणेष्वद्भुतकर्मा च रथी पररथारुजः ।।
एतस्य समरं दृष्ट्वा न व्यथास्ति कथञ्चन ।
उत्स्मयन्नुत्पतत्येष परान्रथपथे स्थितान् ।।
एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम् ।
कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः ।।
अलम्बुसो राक्षसेन्द्रः क्रूरकर्मा महारथः ।
हनिष्यति परान्राजन्पूर्ववैरमनुस्मरन् ।।
एष राक्षससैन्यानं सर्वेषां रथसत्तमः ।
मायावी दृढवैरश्च समरे विचरिष्यति ।।
प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान् ।
गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः ।।
एतेन युद्धमभवत्पुरा गाण्डीवधन्वनः ।
दिवसान्सुबहून्राजन्नुभयोर्जयगृद्धिनोः ।।
ततः सखायं गान्धारे मानयन्पाकशासनम् ।
अकरोत्संविदं तेन पाण्डवेन महात्मना ।।
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः ।
ऐरावतगतो राजा देवानामिव वासवः ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि रथातिरथसंख्यानपर्वणि
सप्तषष्ट्यधिकशततमोऽध्यायः ।।