उद्योगपर्व

अध्यायः १६९

Udyoga Parva (Sanskrit) · Adhyaya 169
अक्षर का आकार

भीष्म उवाच।

एते रथास्तवाख्यातास्तथैवातिरथा नृप।
ये चाप्यर्धरथा राजन्पाण्डवानामतः श्रृणु ।।

यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप ।
रथसंख्यां शृणुष्व त्वं सहैभिर्वसुधाधिपैः ।।

स्वयं राजा रथोदारः पाण्डवः कुन्तनन्दनः ।
अग्निवत्समरे तात चरिष्यति न संशयः ।।

भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसंमितः ।
न तस्यास्ति समो युद्धे गदया सायकैरपि ।।

नागायुतबलो मानी तेजसा न स मानुषः ।
माद्रीपुत्रो च रथिनौ द्वावेव पुरुषर्षभौ ।।

अश्विनाविव रूपेण तेजसा च समन्वितौ।
एते चमूमुखगताः स्मरन्तः क्लेशमुत्तमम् ।।

रुद्रवत्प्रचरिष्यन्ति तत्र मे नास्ति संशयः ।
सर्व एव महात्मानः सालस्तम्भा इवोद्गताः ।।

प्रादेशेनाधिकाः पुंभिरन्यैस्ते च प्रमाणतः।
सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः ।।

चरितब्रह्मचर्याश्च सर्वे तात तपस्विनः।
ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः ।।

जवे प्रहारे संमर्दे सर्व एवातिमानुषाः ।
सर्वैर्जिता महीपाला दिग्जये भरतर्षभ ।।

न चैषां पुरुषाः केचिदायुधानि गदाः शरान्।
विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव ।।

उद्यन्तुं वा गदा गुर्वीः शरान्वा क्षेप्तुमाहवे ।
जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे ।।

बालैरपि भवन्तस्तैः सर्व एव विशेषिताः।
एतत्सैन्यं समासाद्य सर्व एव बलोत्कटाः ।।

विध्वंसयिष्यन्ति रणे मा स्म तैः सह संगमः ।
एकैकशस्त संमर्दे हन्युः सर्वान्महीक्षितः ।।

प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत् ।
द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः ।।

ते स्मरन्तश्च सङ्ग्रामे चरिष्यन्ति च रुद्रवत् ।
लोहिताक्षो गुडाकेशो नारायणसहायवान् ।।

उभोयोः सेनयोर्वीरो रथो नास्तीति तादृशः ।
न हि देवेषु वा पूर्वं मनुष्येषूरगेषु च ।।

राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु ।
भूतोथ वा भविष्यो वा रथः कश्चिन्मया श्रुतः ।।

समायुक्तो महाराज रथः पार्थस्य धीमतः।
वासुदेवश्च संयन्ता योद्धा चैव धनञ्जयः ।।

गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः ।
अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी ।।

अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एवच ।
याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाः ।।

वज्रादीनि च मुख्यानि नानाप्रहरणानि च ।
दानवानां सहस्राणि हिरण्यपुरवासिनाम् ।।

हतान्येकरथेनाजौ कस्तस्य सदृशो रथः।
एष हन्याद्धि संरम्भी बलवान्सत्यविक्रमः ।।

तव सेनां महाबाहुः स्वां चैव परिपालयन्।
अहं चैनं प्रत्युदियामाचार्यो वा धनञ्जयम् ।।

न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि ।
य एनं शरवर्षाणि वर्षन्तमुदियाद्रथी ।।

जीमूत इव घर्मान्ते महावातसमीरितः ।
समायुक्तस्तु कौन्तेयो वासुदेवसहायवान् ।
तरुणश्च कृती चैव जीर्णावावामुभावपि ।।

वैशंपायन उवाच।

एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा।
काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः ।।

मनोभिः सह संवेगैः संस्मृत्य च पुरातनम् ।
सामर्थ्यं पाण्डवेयानां यथा प्रत्यक्षदर्शनात् ।।

।। इति श्रीमन्महाभारते
उद्योगपर्वणि रथातिरथसंख्यानपर्वणि
एकोनसप्तत्यधिकशततमोऽध्यायः ।।