उद्योगपर्व

अध्यायः १६४

Udyoga Parva (Sanskrit) · Adhyaya 164
अक्षर का आकार

संजय उवाच।

उलूकस्य वृत्तः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः।
सेनां नियापयामास धृष्टद्युम्नपुरोगमाम् ।।

पदातिनीं नागवतीं रथिनीमश्वबृन्दिनीम् ।
चतुर्विधबलां भीमामकम्पां पृथिवीमिव ।।

भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः ।
धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम् ।।

तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः।
द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नो व्यकर्षत ।।

यथाबलं यथोत्साहं रथिनः समुपादिशत् ।
अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च ।।

धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम् ।
अश्वात्थाम्ने च नकुलं शैब्यं च कृतवर्मणे ।।

सैन्धवाय च वार्ष्णेयं युयुधानं समादिशत्।
शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत् ।।

सहदेवं शकुनये चेकितानं शलाय वै।
द्रौपदेयांस्तथा पञ्च त्रिगर्तेभ्यः समादिशत् ।।

वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम् ।
स समर्थं हि तं मेने पार्थादभ्यधिकं रणे ।।

एवं विभज्य योधांस्तान्पृथक्व सह चैव ह ।
ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत् ।।

धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः ।
विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः ।।

यथोद्दिष्टानि सैन्यानि पाण्डवानामयोजयत्।
जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे ।।

।। इति श्रीमन्महाभारते
उद्योगपर्वणि उलूकदूतागमनपर्वणि
चतुःषष्ट्यधिकशततमोऽध्यायः ।।