उद्योगपर्व

अध्यायः १६३

Udyoga Parva (Sanskrit) · Adhyaya 163
अक्षर का आकार

सञ्जय उवाच।

दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभ ।
नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत ।।

स केशवमभिप्रेक्ष्य गुडाकेशो महायशाः ।
अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् ।।

स्ववीर्यं यः समाश्रित्य समाह्वयति वै परान् ।
अभीतो युध्यते शत्रून्स वै पुरुष उच्यते ।।

परवीर्यं समाश्रित्य यः समाह्वयते परान् ।
क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः ।।

स त्वं परेषां वीर्येण मन्यसे वीर्यमात्मनः ।
स्वयं कापुरुषो मूढ परांश्च क्षेप्तुमिच्छसि ।।

यस्त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम् ।
मरणाय महाप्रज्ञं दीक्षयित्वा विकत्थसे ।।

भावस्ते विदितोऽस्माभिर्दुर्बुद्धे कुलपांसन ।
न हनिष्यन्ति गाङ्गेयं पाण्डवा घृणयेति हि ।।

यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे।
हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम् ।

कैतव्य गत्वा भरतान्समेत्य
सुयोधनं धार्तराष्ट्रं वदस्व।
तथेत्युवाचार्जुनः सव्यसाची
निशाव्यपाये भविता विमर्दः ।।

सुयोधनं धार्तराष्ट्रं वदस्व ।।

हन्यामहं द्रोणमृतेऽपि लोकं
न ते भयं विद्यते पाण्डवेभ्यः ।
ततो हि ते लब्धमतं च राज्य-
मापद्गताः पाण्डवाश्चेति भावः ।।

स दर्पपूर्णो न समीक्षसे त्व-
मनर्थमात्मन्यपि वर्तमानम्।
तस्मादहं ते प्रथमं समूहे
हन्ता समक्ष कुरुवृद्धमेव ।।

सूर्योदये युक्तसेनः प्रतीक्ष्य
ध्वजी रथी रक्षत सत्यसन्धम्।
अहं हि वः पश्यतां द्विपमेनं
भीष्मं रथात्पातयिष्यामि बाणैः ।।

श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः।
आचितं शरजालेन मया दृष्ट्वा पितामहम् ।।

यदुक्तश्च सभामध्ये पुरुषो ह्रस्वदर्शनः।
क्रुद्धेन भीमसेनेन भ्राता दुःशासनस्तव ।।

अधर्मज्ञो नित्यवैरी पापबुद्धिर्नृशंसकृत्।
सत्यां प्रतिज्ञामचिराद्द्रक्ष्यसे तां सुयोधन ।।

अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा।
नैष्ठुर्यस्यावलेपस्य आत्मसंभावनस्य च।।

नृशंसतायास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च।
अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च ।।

दर्शनस्य च चक्रस्य कृत्स्नस्यापनयस्य च।
द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन ।।

वासुदेवद्वितीये हि मयि क्रुद्धे नराधम।
आशा ते जीविते मूढ राज्ये वा केन हेतुना ।।

शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते।
निराशो जीविते राज्ये पुत्रेषु च भविष्यसि ।।

भ्रातॄणां निधनं श्रुत्वा पुत्राणां च सुयोधन ।
भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि ।।

न द्वितीयां प्रतिज्ञां हि प्रतिजानामि कैतव ।
सत्यं ब्रवीम्यहं ह्येतत्सर्वं सत्यं भविष्यति ।।

युधिष्ठिरोऽपि कैतव्यमुलूकमिदमब्रवीत्।
उलूक मद्वचो ब्रूहि गत्वा तात सुयोधनम् ।।

स्वेन वृत्तेन मे वृत्तं नाधिगन्तुं त्वमर्हसि ।
उभयोरन्तरं वेद सूनृतानृतयोरपि ।।

न चाहं कामये पापमपि कीटपिपीलकयोः।
किं पुनर्ज्ञातिषु वधं कामयेयं कथं च न ।।

एतदर्थं मया तात पञ्च ग्रामा वृताः पुरा।
कथं तव सुदुर्बुद्धे न प्रेक्ष्ये व्यसनं महत् ।।

स त्वं कामपरीतात्मा मूढभावाच्च कत्थसे।
तथैव वासुदेवस्य न गृह्णासि हितं वचः ।

किंचेदानीं बहूक्तेन युध्यस्व सह बान्धवैः।
मम विप्रियकर्तारं कैतव्य सह बान्धवैः ।

मम विप्रियकर्तारं कैतव्य ब्रूहि कौरवम् ।।
श्रुतं वाक्यं गृहीतोऽर्थो मतं यत्ते तथास्तु तत्।

भीमसेनस्ततो वाक्यं भूय आह नृपात्मजम् ।।
उलूक मद्वचो ब्रूहि दुर्मतिं पापपूरुषम्।

शठं नैकृतिकं पापं दुराचारं सुयोधनम् ।।
गृध्रोदरे वा वस्तव्यं पुरे वा नागसाह्वये ।

प्रतिज्ञातं मया यच्च सभामध्ये नराधम ।।
कर्ताहं तद्वचः सत्यं सत्येनैव शपामि ते।

दुःशासनस्य रुधिरं हत्वा पास्याम्यहं मृधे ।।
सक्थिनी तव भंक्त्वैव हत्वा हि तव सोदनान्।

सर्वेषां राजपुत्राणामभिमन्युरसंशयम् ।
कर्मणा तोषयिष्यामि भूयश्चैव वचः श्रृणु ।।

हत्वा सुयोधन त्वां वै सहितं सर्वसोदरैः ।
आक्रमिष्ये पदा मूर्ध्नि धर्मराजस्य पश्यतः ।।

नकुलस्तु ततो वाक्यमिदमाह महीपते।
उलूक ब्रूहि कौरव्यं धार्तराष्ट्रं सुयोधनम् ।।

श्रुतं ते गदतो वाक्यं सर्वमेव यथातथम्।
तथा कर्तास्मि कौरव्य यथा त्वमनुशासि मां ।।

सहदेवोऽपि नृपते इदमाह वचोऽर्थवत् ।
सुयोधन मतिर्या ते वृथैषा ते भविष्यति ।।

शोचिष्यसे महाराज सपुत्रज्ञातिबान्धवः ।
इमं च क्लेशमस्माकं हृष्टो यत्त्वं विकत्थसे ।।

विराटद्रुपदौ वृद्धावुलूकमिदमूचतुः ।
दासभावं नियच्छेव साधोरिति मतिः सदा।
तौ च दासावदासौ वा पौरुषं यस्य यादृशम् ।।

शिखण्डी तु ततो वाक्यमुलूकमिदमब्रवीत् ।
वक्तव्यो भवता राजा पापेष्वभिरतः सदा ।।

पश्य त्वं मां रणे राजन्कुर्वाणं कर्म दारुणम् ।
यस्य वीर्यं समासाद्य मन्यसे विजयं युधि ।।

तमहं पातयिष्यामि रथात्तव पितामहम्।
अहं भीष्मवधात्सृष्टो नूनं धात्रा महात्मना ।।

सोऽहं भीष्मं हनिष्यामि मिषतां सर्वधन्विनाम् ।
धृष्टद्युम्नोऽपि कैतव्यमुलूकमिदमब्रवीत् ।।

सुयोधनो मम वचो वक्तव्यो नृपतेः सुतः।
अहं द्रोणं हनिष्यामि सगणं सहबान्धवम् ।।

अवश्यं च मया कार्यं पूर्वेषां चरितं महत् ।
कर्ता चाहं तथा कर्म यथा नान्यः करिष्यति

तमब्रवीद्धर्मराजः कारुण्यार्थं वचो महत्।
नाहं ज्ञातिवधं राजन्कामयेयं कथंचन ।।

तवैव दोषाद्दुर्बुद्धे सर्वमेतत्त्वनावृतम् ।
स गच्छ माचिरं तात उलूक यदि मन्यसे ।।

इह वा तिष्ठ भद्रं ते वयं हि तव बान्धवाः ।
उलूकस्तु ततो राजन्धर्मपुत्रं युधिष्ठिरम् ।।

आमन्त्र्य प्रययौ तत्र यत्र राजा सुयोधनः ।
उलूकस्तत आगमक्य दुर्योधनममर्षणम् ।।

अर्जुनस्य समादेशं यथोक्तं सर्वमब्रवीत् ।
वासुदेवस्य भीमस्य धर्मराजस्य पौरुषम् ।।

नकुलस्य विराटस्य द्रुपदस्य च भारत ।
सहदेवस्य च वचो धृष्टद्युम्नशिखण्डिनोः।
केशवार्जुनयोर्वाक्यं यथोक्तं सर्वमब्रवीत् ।।

कैतव्यस्य तु तद्वाक्यं निशम्य भरतर्षभः ।
दुःशासनं च कर्णं च शकुनिं चापि भारत ।।

आज्ञपयत राज्ञश्च बलं मित्रबलं तथा।
यथा प्रागुदयात्सर्वे युक्तास्तिष्ठन्त्यनीकिनः ।।

ततः कर्णसमादिष्टा दूताः सन्त्वरिता रथैः ।
उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः ।।

तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात्।
आज्ञापयन्तो राज्ञश्च योगः प्रागुदयादिति ।।

।। इति श्रीमन्महाभारते
उद्योगपर्वणि उलूकदूतागमनपर्वणि
त्रिष्टष्ट्यधिकशततमोऽध्यायः ।।