उद्योगपर्व
अध्यायः १६५
धृतराष्ट्र उवाच।
प्रतिज्ञाते फाल्गुनेन वधे भीष्मस्य संयुगे।
किमकुर्वत मे मन्दाः पुत्रा दुर्योधनादयः ।।
हतमेव हि पश्यामि गाङ्गेयं पितरं रणे।
वासुदेवसहायेन पार्थेन दृढधन्वना ।।
स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम् ।
किमुक्तवान्महेष्वासो भीष्मः प्रहरतां वरः ।।
सैनापत्यं च संप्राप्य कौरवाणां धुरंधरः ।
किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः ।।
वैशंपायन उवाच।
ततस्तत्सञ्जयस्तस्मै सर्वमेव न्यवेदयत्।
यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा ।।
सञ्जय उवाच।
सैनापत्यमनुप्राप्य भीष्मः शान्तनवो नृप।
दुर्योधनमुवाचेदं वचनं हर्षयन्निव ।।
नमस्कृत्य कुमाराय सेनान्ये शक्तिपाणये ।
अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः ।
सेनाकर्मण्यिज्ञोऽस्मि व्यूहेषु विविधेषु च।
कर्म कारयितुं चैव भृतानप्यभृतांस्तथा ।।
यात्रायाने च युद्धे च तथा प्रशमनेषु च ।
भृशं वेद महाराज यथा वेद बृहस्पतिः ।।
व्यूहानां च समारम्भान्दैवगान्धर्वमानुषान्।
तैरहं मोहयिष्यामि पाण्डवान्व्येतु ते ज्वरः ।।
सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम् ।
यथावच्छास्त्रतो राजन्व्येतु ते मानसो ज्वरः ।।
दुर्योधन उवाच।
विद्यते मे न गाङ्गेय भयं देवासुरेष्वपि ।
समस्तेषु महाबाहो सत्यमेतद्ब्रवीमि ते ।।
किं पुनस्त्वयि दुर्धर्पे सैनापत्ये व्यवस्थिते।
द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि ।।
भवद्र्यां पुरुषाग्र्याभ्यां स्थिताभ्यां विजयो मम।
न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम् ।।
रथसङ्ख्यां तु कार्त्स्न्येन परेषामात्मनस्तथा ।
तथैवातिरथानां च वेत्तुमिच्छामि कौरव ।।
पितामहो हि कुशलः परेषामात्मनस्तथा ।
श्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपैः ।।
भीष्म उवाच।
गान्धारे श्रृणु राजेन्द्र रथसंख्यां स्वके बले।
ये रथाः पृथिवीपाल तथैवातिरथाश्च ये ।।
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च।
रथानां तव सेनायां यथामुख्यं तु मे श्रुणु ।।
भवानग्रे रथोदारः सह सर्वैः सहोदरैः ।
दुःशासनप्रभृतिभिर्भ्रातृभिः शतसंमितैः ।।
सर्वे कृतप्रहरणाश्छेदभेदविशारदाः ।
रथोपस्थे गजस्कन्धे गदाप्रासासिचर्मणि ।।
संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः ।
इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः ।।
एते हनिष्यन्ति रणे पाञ्चालान्युद्धदुर्मदान् ।
कृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः ।।
तथाऽहं भरतश्रेष्ठ सर्वसेनापतिस्तव।
शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् ।।
न त्वात्मनो गुणान्वक्तुमर्हामि विदितोऽस्मि ते।
कृतवर्मा त्वयिरथो भोजः शस्त्रभृतां वरः ।।
अर्थसिद्धिं तव रणे करिष्यति न संशयः।
शस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः ।।
हनिष्यति चमूं तेषां महेन्द्रो दानवानिव ।
मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः ।।
स्पर्धते वासुदेवेन नित्यं यो वै रणेरणे।
भागिनेयान्निजांस्त्यक्त्वा शल्यस्तेऽतिरथो मतः।
एष योत्स्यति संग्रामे पाण्डवांश्च महारथान् ।।
सागरोर्मिसमैर्बाणैः प्लावयन्निव शातवान् ।
भूरिश्रवाः कृतास्रश्च तव चापि हितः सुहृत् ।।
सौमदत्तिर्महेष्वासो रथयूथपयूथपः।
वलक्षयममित्राणां सुमहान्तं करिष्यति ।।
सिन्धुराजो महाराज मतो मे द्विगुणो रथाः।
योत्स्यते समरे राजन्विक्रान्तो रथसत्तमः ।।
द्रौपदीहरणे राजन्परिक्लिष्टश्च पाण्डवैः ।
संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा ।।
एतेन हि तदा राजंस्तप आस्थाय दारुणम् ।
सुदुर्लभो वरो लब्धः पाण्डवान्योद्ध्रुमाहवे ।।
स एष रथशार्दूलस्तद्वैरं संस्मरन्रणे।
योत्स्यते पाण्डवैस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान् ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि रथातिरथसंख्यानपर्वणि
पञ्चषष्ट्यधिकशततमोऽध्यायः ।।