उद्योगपर्व
अध्यायः १६२
सञ्जय उवाच।
उलूकस्त्वर्जुनं भूयो यथोक्तं वाक्यमब्रवीत्।
आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया ।।
तस्य तद्वचनं श्रुत्वा रुषिताः पाण्डवा भृशम् ।
प्रागेव भृशसंक्रुद्धाः कैतव्येनापि धर्षिताः ।।
आसनेषूदतिष्ठन्त बाहूंश्चैव प्रचिक्षिपुः।
आशीविषा इव क्रुद्धा वीक्षाञ्चक्रुः परस्परम् ।।
अवाक्छिरा भीमसेनः समुदैक्षत कैतवम्।
नेत्राभ्यां लोहितान्ताभ्यामाशीविष इव श्वसन् ।।
आर्तं वातात्मजं दृष्ट्वा क्रोधेनाभिहतं भृशम् ।
उत्स्मयन्निव दाशार्हः कैतव्यं प्रत्यभाषत ।।
प्रयाहि शीघ्रं कैतव्य ब्रूयाश्चैव सुयोधनम् ।
श्रुतं वाक्यं गृहीतोर्थो मतं यत्ते तथास्तु तत् ।।
एवमुक्त्वा महाबाहुः केशवो राजसत्तम।
पुनरेव महाप्राज्ञं युधिष्ठिरमुदैक्षत।।
सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः।
द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ ।।
भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह।
उलूकोऽप्यर्जुनं भूयो यथोक्तं वाक्यमब्रवीत् ।।
आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया।
कृष्णादींश्चैव तान्सर्वान्यथोक्तं वाक्यमब्रवीत् ।।
उलूकस्य तु तद्वाक्यं पापं दारुणमीरितम् ।
श्रुत्वा विचुक्षुभे पार्थो ललाटं चाप्यमार्जयत् ।।
तदवस्थं तदा दृष्ट्वा पार्थं सा समितिर्नृप ।
नामृष्यत महाराज पाण्डवानां महारथाः ।।
अधिक्षेपेण कृष्णस्य पार्थस्य च महात्मनः।
श्रुत्वा ते पुरुषव्याघ्राः क्रोधाञ्जज्वलुरच्युत ।।
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः।
केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः ।।
द्रौपदेयाभिमन्युश्च धृष्टकेतुश्च पार्थिवः ।
भीमसेनश्च विक्रान्तो यमजौ च महारथौ ।।
उत्पेतुरासनात्सर्वे क्रोधसंरक्तलोचनाः।
बाहुन्प्रगृह्य रुचिरान्रक्तचन्दनरूषितान्।
अङ्गदैः पारिहार्यैश्च केयूरैश्च विभूषितान् ।।
दन्तान्दन्तेषु निष्पिष्य सृक्किणी परिलेलिहन् ।
तेषामाकारभावज्ञः कुन्तीपुत्रो वृकोदरः ।।
उदतिष्ठत्स वेगेन क्रोधेन प्रज्वलन्निव।
उद्वृत्य सहसा नेत्रे दन्तान्कटकटाय्य च ।।
हस्तं हस्तेन निष्पिष्य उलूकं वाक्यमब्रवीत्।
अशक्तानामिवास्माकं प्रोत्साहननिमित्तकम् ।।
श्रुतं ते चवनं मूर्ख यत्त्वां दुर्योधनोऽब्रवीत्।
तन्मे कथयतो मन्द श्रृणु वाक्यं दुरासदम् ।।
सर्वक्षत्रस्य मध्ये तं यद्वक्ष्यसि सुयोधनम् ।
श्रृण्वतः सूतपुत्रस्य पितुश्च त्वं दुरात्मनः ।।
अस्माभिः प्रीतिकामैस्तु भ्रातुर्ज्येष्ठस्य नित्यशः।
मर्षितं ते दुराचार तत्त्वं न बहु मन्यसे ।।
प्रेषितश्च हृषीकेशः शमाकाङ्क्षी कुरून्प्रति ।
कुलस्य हितकामेन धर्मराजेन धीमता ।।
त्वं कालचोदितो नूनं गन्तुकामो यमक्षयम् ।
गच्छस्वाहवमस्माभिस्तच्च श्वो भविता ध्रुवम् ।।
मयापि च प्रतिज्ञातो वधः सभ्रातृकस्य ते।
स तथा भविता पाप नात्र कार्या विचारणा ।।
वेलामतिक्रमेत्सद्यः सागरो वरुणालयः ।
पर्वताश्च विशीर्येयुर्मयोक्तं न मृषा भवेत् ।।
सहायस्ते यदि यमः कुबेरो रुद्र एव वा।
यथाप्रतिज्ञं दुर्बुद्धे प्रकरिष्यन्ति पाण्डवाः ।
दुःशासनस्य रुधिरं पाता चास्मि यथेप्सितम् ।।
यश्चेह प्रतिसंरब्धः क्षत्रियो माभियास्यति।
अपि भीष्मं पुरुस्कृत्य तं नेष्यामि यमक्षयम् ।।
यच्चैतदुक्तं वचनं मया क्षत्रस्य संसदि।
यथैतद्भविता सत्यं तथैवात्मानमालभे ।।
भीमसेनवचः श्रुत्वा सहदेवोऽप्यमर्षणः ।
क्रोधसंरक्तनयनस्ततो वाक्यमुवाच ह ।।
शौटीरशूरसदृशमनीकजनसंसदि।
श्रृणु पाप वचो मह्यं यद्वाच्यो हि पितात्वया ।।
नास्माकं भविता भेदः कदाचित्कुरुभिः सह ।
धृतराष्ट्रस्य संबन्धो यदि न स्यात्त्वया सह ।।
त्वं तु लोकविनाशाय धृतराष्ट्रकुलस्य च।
उत्पन्नो वैरपुरुषः स्वकुलघ्नश्च पापकृत् ।।
जन्मप्रभृति चास्माकं पिता ते पापपूरुषः ।
अहितानि नृशंसानि नित्यशः कर्तुमिच्छति ।।
तस्य वैरानुषङ्गस्य गन्तास्म्यन्तं सुदुर्गमम्।
अहमादौ निहत्य त्वां शकुनेः संप्रपश्यतः ।।
ततोऽस्मि शकुनिं हन्ता मिषतां सर्वधन्विनाम्।
भीमस्य वचनं श्रुत्वा सहदेवस्य चोभयोः ।।
उवाच फाल्गुनो वाक्यं भीमसेनं स्मयन्निव।
भीमसेन न ते सन्ति येषां वैरं त्वया सह ।।
मन्दा गृहेषु सुखिनो मृत्युपाशवशं गताः।
उलूकश्च न ते वाच्यः परुषं पुरुषोत्तम ।।
दूताः किमपराध्यन्ते यथोक्तस्यानुभाषिणः ।
एवमुक्त्वा महाबाहुर्भीमं भीमपराक्रमम् ।।
धृष्टद्युम्नसुखान्वीरान्सुहृदः समभाषत।
श्रुतं वस्तस्य पापस्य धार्तराष्ट्रस्य भाषितम् ।।
कुत्सनं वासुदेवस्य मम चैव विशेषतः।
श्रुत्वा भवन्तः संरब्धा अस्माकं हितकाम्यया ।।
प्रभावाद्वासुदेवस्य भवतां च प्रयत्नतः।
समग्रं पार्थिवं क्षत्रं सर्वं न गणयाम्यहम् ।।
भवद्भिः समनुज्ञातो वाक्यमस्य यदुत्तरम् ।
उलूके प्रापयिष्यामि यद्वक्ष्यति सुयोधनम् ।।
श्वो भूते कत्थितस्यास्य प्रतिवाक्यं चमूमुखे।
गाण्डीवेनाभिधास्याकमि क्लीबा हि वचनोत्तराः ।
ततस्ते पार्थिवाः सर्वे प्रशशंसुर्धनञ्जयम् ।
तेन वाक्योपचारेण विस्मिता राजसत्तमाः ।।
अनुनीय च तान्सर्वान्यथामान्यं यथावयः।
धर्मराजं तदा वाक्यं तत्प्राप्यं प्रत्यभाषत ।।
आत्मानमवमन्वानो न हि स्यात्पार्थिवोत्तमः ।
तत्रोत्तरं प्रवक्ष्यामि तव शुश्रूषणे रतः ।।
उलूकं भरतश्रेष्ठ सामपूर्वमथोर्जितम् ।
दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः ।।
अतिलोहितनेत्राभ्यामाशीविष इव श्वसन् ।
स्मयमान इव क्रोधात्सृक्किणी परिसंलिहन् ।।
जनार्दनमभिप्रेक्ष्य भ्रातॄंश्चैवेदमब्रवीत् ।
अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् ।।
उलूक गच्छ कैतव्य ब्रूहि तात सुयोधनम् ।
कृतघ्नं वैरपुरुषं दुर्मतिं कुलपांसनम् ।।
पाण्डवेषु सदा पाप नित्यं जिह्मं प्रवर्तते।
स्ववीर्याद्यः पराक्रम्य पाप आह्वयते परान्।
अभीतः पूरयन्वाक्यमेष वैः क्षत्रियः पुमान् ।।
स पापः क्षत्रियो भूत्वा अस्मानाहूय संयुगे।
मान्यामान्यान्पुरस्कृत्य युद्धं मा गाः कुलाधम ।।
आत्मवीर्यं समाश्रिकत्य भृत्यवीर्यं च कौरव ।
आह्वयस्व रणे पार्थान्सर्वथा क्षत्रियो भव ।।
परवीर्यं समाश्रित्य यः समाह्वयते परान्।
अशक्तः स्वयमादातुमेतदेव नपुंसकम् ।।
स त्वं परेषां वीर्येण आत्मानं बहुमन्यसे ।
कथमेवमशक्तस्त्वमस्मान्समभिगर्जसि ।।
कृष्ण उवाच।
मद्वचश्चापि भूयस्ते वक्तव्यः स सुयोधनः।
श्व इदानीं प्रपद्येथाः पुरुषो भव दुर्मते ।।
मन्यसे यच्च मूढ त्वं न योत्स्यति जनार्दनः।
सारथ्येन वृतः पार्थैरिति त्वं न बिभेषि च ।।
जघन्यकालमप्येतन्न भवेत्सर्वपार्थिवान्।
निर्दहेयमहं क्रोधात्तृणानीव हुताशनः ।।
युधिष्ठिरनियोगात्तु फाल्गुनस्य महात्मनः ।
करिष्ये युध्यमानस्य सारथ्यं विजितात्मनः ।।
यद्युत्पतसि लोकांस्त्रीन्यद्याविशसि भूतलम् ।
तत्रतत्रार्जुनरथं प्रभाते द्रक्ष्यसे पुनः ।।
यच्चापि भीमसेनस्य मन्यसे मोघभाषितम् ।
दुःशासनस्य रुधिरं पीतमद्यावधारय ।।
न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः।
न भीमसेनो न यमौ प्रतिकूलप्रभाषिणम् ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि उलूकदूतागमनपर्वणि
द्विषष्ट्यधिकशततमोऽध्यायः ।।