उद्योगपर्व
अध्यायः १५४
वैशंपायन उवाच।
वासुदेवस्य तद्वाक्यमनुस्मृत्य युधिष्ठिरः।
पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽऽब्रवीदिदम् ।।
अस्मिन्नभ्यागते काले किंच नः क्षममच्युत ।
कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि ।।
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च ।
वासुदेव मतज्ञोऽसि मम सभ्रातृकस्य च ।।
विदुरस्यापि तद्वाक्यं श्रुतं भीष्मस्य चोभयोः ।
कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता ।।
सर्वमेतदतिक्रम्य विचार्य च पुनः पुनः ।
क्षमं यन्नो महाबाहो तद्ब्रवीह्यविचारयन् ।।
श्रुत्वैतद्धर्मराजस्य धर्मार्थसहितं वचः।
मेघदुन्दुभिनिर्घोषः कृष्णो वाक्यमथाब्रवीत् ।।
उक्तवानस्मि यद्वाक्यं धर्मार्थसहितं हितम्।
न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति ।।
न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा।
मम वा भाषितं किंचित्सर्वमेवातिवर्तते ।।
नैष कामयते धर्मं नैष कामयते यशः ।
जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः ।।
बन्धमाज्ञापयामास मम चापि सुयोधनः ।
न च तं लब्धवान्कामं दुरात्मा पापनिश्चयः ।।
न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः।
सर्वे तमनुवर्तन्ते ऋते विदुरमुच्युत ।।
शकुनिः सौबलश्चैव कर्णदुःशासनावपि ।
त्वय्ययुक्तान्यभाषन्त मूढा मूढममर्षणम् ।।
किंच तेन मयोक्तेन यान्यभाषत कौरवः ।
संक्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते ।।
पार्थिवेषु न सर्वेषु य इमे तव सैनिकाः।
यत्पापं यन्न कल्याणं सर्वं तस्मिन्प्रतिष्ठितम् ।।
न चापि वयमत्यर्थं परित्यागेन कर्हिचित्।
कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम् ।।
वैशंपायन उवाच।
तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम्।
अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत ।।
युधिष्ठिरस्त्वभिप्रायमभिलक्ष्य महीक्षिताम् ।
योगमाज्ञापयामास भीमार्जुनयमैः सह ।।
ततः किलकिलाभूतमनीकं पाण्डवस्य ह।
आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः ।।
अवध्यानां वधं पश्यन्धर्मराजो युधिष्ठिरः।
निश्वसन्भीमसेनं च विजयं चेदमब्रवीत् ।।
यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया।
सोयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः ।।
यस्मिन्यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः।
अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान् ।।
कथं ह्यवध्यैः सङ्ग्रामः कार्यः सह भविष्यति।
कथं हत्वा गुरून्वृद्धान्विजयो नो भविष्यति ।।
वैशंपायन उवाच।
तच्छ्रुत्वा धर्मराजस्य सव्यसाची परन्तपः।
यदुक्तं वासुदेवेन श्रावयामास तद्वचः ।।
उक्तवान्देवकीपुत्रः कुन्त्याश्च विदुरस्य च ।
वचनं तत्त्वया राजन्निखिलेनावधारितम् ।।
न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः।
नापि युक्तं च कौन्तेय निवर्तितुमयुध्यतः ।।
तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा ।
स्मयमानोऽब्रवीद्वाक्यं पार्थमेवमिति ब्रुवन् ।।
ततस्ते धृतसंकल्पा युद्धाय सह सैनिकाः।
पाण्डवेया महाराज तां रात्रिं सुखमावसन् ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि सैन्यनिर्याणपर्वणि
चतुःपञ्चशदधिकशततमोऽध्यायाः ।।