उद्योगपर्व
अध्यायः १५३
जनमेजय उवाच।
युधिष्ठिरं सहानीकमुपायान्तं युयुत्सया।
सन्निविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् ।।
विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम् ।
केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् ।।
महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः।
श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत ।।
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामते।
संभ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले ।।
व्यथयेयुरिमे देवान्सेन्द्रानपि समागमे ।
पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा ।।
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः ।
युधामन्युश्च विक्रान्तो देवैरपि दुरासदः ।।
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।
कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् ।।
वैशंपायन उवाच।
प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा।
कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम् ।।
अकृतेनैव कार्येण गतः पार्थानधोक्षजः ।
स एनान्मन्युनाविष्टो ध्रुवं धक्ष्यत्यसंशयम् ।।
इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः ।
भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ ।।
अजातशत्रुरत्यर्थं भीमसेनवशानुगः।
निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः ।।
विराटद्रुपदौ चैव कृतवैरौ मया सह ।
तौ च सेनाप्रणेतारौ वासुदेववशानुगौ ।।
भविता विग्रहः सोयं तुमुलो लोमहर्षणः ।
तस्मात्साङ्ग्रामिकं सर्वं कारयध्वमतन्द्रिताः ।।
शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः ।
स्वपर्याप्तावकाशानि दुरादेयानि शत्रुभिः ।।
आसन्नजलकोष्ठानि शतशोथ सहस्रशः ।
अच्छेद्याहारमार्गाणि बन्धोच्छ्रयचितानि च ।
विविधायुधपूर्णानि पताकाध्वजवन्ति च।
समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः ।।
प्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम् ।
वैशंपायन उवाच।
ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा ।।
हृष्टरूपा महात्मानो निवासाय महीक्षिताम् ।
ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम् ।।
आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः ।
बाहून्परिघसङ्काशान्संस्पृशन्तः शनैः शनैः ।।
काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान्।
उष्णीषाणि नियच्छन्तः पुण्डरीकनिभै करैः।
अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः ।।
ते रथान्रथिनः श्रेष्ठा हयांश्च हयकोविदाः।
सज्जयन्ति स्म नागांश्च नागशिक्षास्वनुष्ठिताः ।।
अथ वर्माणि चित्राणि काञ्चनानि बहूनि च ।
विविधानि च शस्त्राणि चक्रुः सर्वाणि सर्वशः ।।
पदातयश्च पुरुषाः शस्त्राणि विविधानि च।
उपाजह्रुः शरीरेषु हेमचित्राण्यनेकशः ।।
तदुत्सव इवोदग्रं संप्रहृष्टनरावृतम् ।
नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् ।।
जनौघसलिलावर्तो रथनागाश्वमीनवान् ।
शङ्खदुन्दुभिनिर्घोषः कोशसञ्चयरत्नवान् ।।
चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान् ।
प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः ।।
योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः ।
व्यदृश्यत तदा राजंश्चन्द्रोदय इवोदधिः ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि सैन्यनिर्याणपर्वणि
त्रिपञ्चाशदधिकशततमोऽध्यायः ।।