उद्योगपर्व
अध्यायः १५५
वैशंपायन उवाच।
व्युष्टायां वै रजन्यां हि राजा दुर्योधनस्ततः।
व्यभजत्तान्यनिकानि दश चैकं च भारत ।।
नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च।
सर्वेष्वेतेष्वनीकेषु सन्दिदेश नराधिपः ।।
सानुकर्षाः सतूणीराः सवरूथाः सतोमराः।
सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सहर्ष्टयः ।
सध्वजाः सपताकाश्च सशरासनतोमराः ।
रज्जुभिश्च विचित्राभिः सपाशाः सपरिच्छदाः ।।
सकचग्रहविक्षेपाः सतैलगुडवालुकाः ।
साशीविषघटाः सर्वे ससर्जरसपांसवः ।।
सघण्टफलकाः सर्वे सायोगुडजलोपलाः ।।
सशालभिन्दिपालाश्च समधूच्छिष्टमुद्गराः ।।
सकाण्डदण्डकाः सर्वे ससीरविषतोमराः ।
सशूर्पपिटकाः सर्वे सदात्राङ्कुशतोमराः ।।
सकीलकवचाः सर्वे वाशीवृक्षादनान्विताः।
व्याघ्रचर्मपरीवारा द्वीपिचर्मावृताश्च ते ।।
सहर्ष्टयः सश्रृङ्गाश्च सप्रासविविधायुधाः ।
सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः ।।
रुक्मजालप्रतिच्छन्ना नानामणिविभूषिताः ।
चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः ।।
तथा कवचिनः शूराः शस्त्रेषु कृतनिश्चयाः ।
कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः ।।
बद्धारिष्टा बद्धकक्षा बद्धध्वजपताकिनः।
बद्धाभरणनिर्यूहा बद्धचर्मासिपट्टिशाः ।।
चतुर्युजो रथाः सर्वे सर्वे चोत्तमवाजिनः ।
सप्रासऋष्टिकाः सर्वे सर्वे शतशरासनाः ।।
धुर्ययोर्हकययोरेकस्तथान्यौ पर्ष्णिसारथी ।
तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा ।।
नगराणीव गुप्तानि दुराधर्षाणि शत्रुभिः ।
आसन्रथसहस्राणि हेममालीनि सर्वशः ।।
यथा रथास्तथा नागा बद्धकक्षाः स्वलङ्कृताः ।
बभूवुः सप्तपुरुषा रत्नवन्त इवाद्रयः ।।
द्वावङ्कुशधरौ तत्र द्वावुत्तमधनुर्धरौ ।
द्वौ वरासिधरौ राजन्नेकः शक्तिपिनाकधृत् ।।
गजैर्मत्तैः समाकीर्णं सर्वमायुधकोशकैः।
तद्बभूव बलं राजन्कौरव्यस्य महात्मनः ।।
आमुक्तकवचैर्युक्तैः सपताकैः स्वलङ्कृतैः ।
सादिभिश्चोपपन्नास्तु तथा चायुतशो हयाः ।।
असङ्ग्राहाः सुसंपन्ना हेमभाण्डपरिच्छदाः।
अनेकशतसाहस्राः सर्वे सादिवशे स्थिताः ।।
नानारूपविकाराश्च नानाकवचशस्त्रिणः ।
पदातिनो नरास्तत्र बभूवुर्हेममालिनः ।।
रथस्यासन्दश गजा गजस्य दश वाजिनः ।
नरा दश हयस्यासन्पादरक्षाः समन्ततः ।।
रथस्य नागाः पञ्चाशन्नागस्यासञ्शतं हयाः।
हयस्य पुरुषाः सप्त भिन्नसन्धानकारिणः ।।
सेना पञ्चशतं नागा रथास्तावन्त एव च।
दशसेना च पृतना पृतना दश वाहिनी ।।
सेना च वाहिनी चैव पृतना ध्वजिनी चमूः ।
अक्षौहिणीति पर्यायैर्निरुक्ता च वरूथिनी ।।
एवं व्यूढान्यनीकानि कौरवेयेण धीमता।
अक्षौहिण्यो दशैका च सङ्ख्याताः सप्त चैव ह ।।
अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूद्बलम् ।
अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम् ।।
नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते।
सेनामुखं च तिस्रस्ता गुल्म इत्यभिशब्दितम् ।।
त्रयो गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन् ।
दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः ।।
तत्र दुर्योधनो राजा शूरान्बुद्धिमतो नरान्।
प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा ।
पृथगक्षौहिणीनां च प्रणेतॄन्नरसत्तमान् ।
विधिवत्पूर्वमानीय पार्थिवानभ्यषेचयत् ।।
कृपं द्रोणं च शल्यं च सैन्धवं च जयद्रथम् ।
सुदक्षिणं च काम्भोजं कृतवर्माणमेव च ।।
द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च।
शकुनिं सौबलं चैव बाह्लीकं च महाबलम् ।।
दिवसे दिवसे तेषां प्रतिवेलं च भारत।
चक्रे स विविधाः पूजाः प्रत्यक्षं च पुनः पुनः ।।
तथा विनियताः सर्वे ये च तेषां पदानुगाः।
बभूवुः सैनिका राज्ञां प्रियं राज्ञश्चिकीर्षवः ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि सैन्यनिर्याणपर्वणि
पञ्चपञ्चाशदधिकशततमोऽध्यायः ।।