उद्योगपर्व
अध्यायः १५२
वैशंपायन उवाच।
ततो देशे समे स्निग्धे प्रभूतयवसेन्धने।
निवेशयामास तदा सेनां राजा युधिष्ठिरः ।।
परिहृत्य श्मशानानि देवतायतनानि च।
आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च ।।
मधुरानूषरे देशे शुचौ पुण्ये महामतिः ।
निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः ।।
ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः ।
प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः ।।
विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान् ।
पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः ।।
शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः।
सात्यकिश्च रथोदारो युयुधानश्च वीर्यवान् ।।
आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् ।
सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् ।।
खानयामास परिखां केशवस्त्रत्र भारत ।
गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत् ।।
विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम् ।
तद्विधानि नरेन्द्राणां कारयामास केशवः ।।
प्रभूततरकाष्ठानि दुराधर्षतराणि च।
भक्ष्यभोज्यान्नपानानि शतशोऽथ सहस्रशः ।।
शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक् ।
विमानानीव राजेन्द्र निविष्टानि महीतले ।।
तत्रासञ्शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः।
सर्वापकरणैर्युक्ता वैद्याः शास्त्रविशारदाः ।।
ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः ।
ससर्जरकसपांसूनां राशयः पर्वतोपमाः ।।
बहूदकं सुयवसं तुषाङ्गारसमन्वितम् ।
शिबिरे शिबिरे राजा सञ्चकार युधिष्ठिरः ।।
महायन्त्राणि नाराचास्तोमराणि परश्वधाः।
धनूंषि कवचादीनि ऋष्टयस्तूणसंयुताः ।।
गजाः कण्टकसन्नाहा लोहवर्मोत्तरच्छदाः।
दृश्यन्ते तत्र गिर्याभाः सहस्रशतयोधिनः ।।
निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत ।
अभिसस्रुर्यथादेशं सबलाः सहवाहनाः ।।
चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः।
जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि सैन्यनिर्याणपर्वणि
द्विपञ्चशदधिकशततमोऽध्यायः ।।