उद्योगपर्व
अध्यायः १५१
वैशंपायन उवाच।
जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः।
भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह।।
श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि ।
केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम् ।।
तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः ।
अक्षौहिण्यश्च सप्तैताः समेता विजयाय वै ।।
तासां ये पतयः सप्त विख्यातास्तान्निबोधत।
द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ ।।
सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान् ।
एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः ।।
सर्वे वेदविदः शूराः सर्वे सुचिरितव्रताः ।
ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः ।।
इष्वस्त्रकुशलाः सर्वे तथा सर्वास्त्रयोधिनः ।
सप्तानामपि यो नेता सेनानां प्रविभागवित् ।।
यः सहेत रणे भीष्णं शरार्चिःपावकोपमम् ।
तं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन।
स्वगतं पुरुषव्याघ्र को नः सेनापतिः क्षमः ।।
सहदेव उवाच।
संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः।
यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे ।।
मत्स्यो विराटो बलवान्कृतास्त्रो युद्धदुर्मदः ।
प्रसहिष्यति सङ्ग्रामे भीष्मं तांश्च महारथान् ।।
वैशंपायन उवाच।
तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः ।
नकुलोऽनन्तरं तस्मादिदं वचनमाददे ।।
वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च ।
ह्रीमान्बलान्वितः श्रीमान्सर्वशास्त्रविशारदः ।।
वेद चास्त्रं भारद्वाजाहुर्धर्षः सत्यसङ्गरः ।
यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम् ।।
श्लाघ्यः पार्थिववंशस्य प्रमुखे वाहिनीपतिः।
पुत्रपौत्रेः परिवृतः शतशाख इव द्रुमः।।
यस्तताप तपो घोरं सदारः पृथिवीपतिः ।
रोषाद्द्रोणविनाशाय वीरः समितिशोभनः ।।
पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः ।
श्वशुरो द्रुपदोऽस्माकं सेनाग्रं स प्रकर्षतु ।।
स द्रोणभीष्मावायातौ सहेदिति मतिर्मम ।
स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः ।।
माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः।
वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः ।।
योयं तपःप्रभावेन ऋषिसन्तोषणेन च ।
दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाभुजः ।।
धनुष्मान्कवची खङ्गी रथमारुह्य दंशितः ।
दिव्यैर्हयवरैर्युक्तमग्निकुण्डात्समुत्थितः ।।
गर्जन्निव महामेघो रथघोषेण वीर्यवान् ।
सिंहसंहननो वीरः सिंहतुल्यपराक्रमः ।।
सिंहोरस्कः सिंहभुजः सिंहवक्षा महाबलः ।
सिंहप्रगर्जनो वीरः संहस्कन्धो महाद्युतिः ।।
शुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः ।
सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः ।।
अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः ।
जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः ।।
धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान्।
वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव ।।
यमदूतसमान्वेगे निपाते पावकोपमान् ।
रामेणाजौ विषिहितान्वज्रनिष्पेषदारुणान् ।।
पुरुष तं न पश्यामि यः सहेत महाव्रतम्।
धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः ।।
क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम ।
अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः ।।
`अर्जुनेनैवमुक्ते तु भीमो वाक्यं समाददे।'
वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः ।
वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः ।।
यस्य सङ्ग्राममध्ये तु दिव्यमस्त्रं प्रकुर्वतः ।
रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः ।।
न तं युद्धे प्रपश्यामि यो भिन्द्यात्तु शिखण्डिनाम् ।
शस्त्रेण समरे राजन्सन्नद्वं स्यन्दने स्थितम् ।।
द्वैरथे समरे नान्यो भीष्मं हन्यान्महाव्रतम् ।
शिखण्डिनमृते वीरं स मे सेनापतिर्मतः ।।
युधिष्ठिर उवाच।
सर्वस्य जगतस्तात सारासारं बालाबलम् ।
सर्वं जानाति धर्मात्मा मतमेषां च केशवः ।।
यमाह कृष्णो दाशार्हः सोऽस्तु सेनापतिर्मम ।
कृतास्त्रोप्यकृतास्त्रो वा वृद्धो वा यदि वा युवा ।।
एष नो विजये मूलमेष तात विपर्यये।
अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे ।।
एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता।
यमाह कृष्णो दाशार्हः सोस्तु नो वाहिनीपतिः ।।
ब्रवीतु वदतां श्रेष्ठो निशा समभिवर्तते।
ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनः ।।
रात्रेः शेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम् ।
अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः ।।
वैशंपायन उवाच।
तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः।
अब्रवीत्पुण्डरीकाक्षो धनञ्जयमवेक्ष्य ह ।।
ममाप्येते महाराज भवद्भिर्य उदाहृताः।
नेतारस्तव सेनाया मता विक्रान्तयोधिनः ।।
सर्व एव समर्था हि तव शत्रुं प्रबाधितुम्।
इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे ।।
किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम्।
मयापि हि महाबाहो त्वत्प्रियार्थं महाहवे ।।
कृतो यत्नो महांस्तत्र शमः स्यादिति भारत ।
धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ।।
कृतार्थं मन्यते बाल आत्मनमविचक्षणः ।
धार्तराष्ट्रो बलस्थं च पश्यत्यात्मानमातुरः ।।
युज्यतां वाहिनी साधु वधसाध्या हि मे मताः ।
न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनञ्जयम् ।।
भीमसेनं च सङ्क्रुद्धं यमौ चापि यमोपमौ ।
युयुधानं द्वितीयं च धृष्टद्युम्नममर्षणम् ।।
अभिमन्युं द्रौपदेयान्विराटद्रुपदावपि।
अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्भीमविक्रमान् ।।
सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम्।
धार्तराष्ट्रबलं सङ्ख्ये हनिष्यति न संशयः ।।
धृष्टद्युम्नमहं मन्ये सेनापतिमरिन्दम।
वैशंपायन उवाच।
एवमुक्ते तु कृष्णेन संप्राहृष्यन्नरोत्तमाः ।।
तेषां प्रहृष्टमनसां नादः समभवन्महान्।
योग इत्यथ सैन्यानां त्वरतां संप्रधावताम् ।।
हयवारणशब्दाश्च नेमिघोषाश्च सर्वतः।
शङ्खदुन्दुभिघोषाश्च तुमुलाः सर्वतोऽभवन् ।।
तद्रुग्रं सागरनिभं क्षुब्धं बलसमागमम्।
रथपत्तिगजोदयं महोर्मिभिरिवाकुलम् ।।
धावतामाहुयानानां तनुत्राणि च बध्नताम् ।
प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः ।।
गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी ।
अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ ।।
सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नस्य पार्षतः ।
प्रभद्रकाश्च पञ्चाला भीमसेनमुखा ययुः ।।
ततः शब्दः समभवत्सुमुद्रस्येव पर्वणि ।
फल्गु यच्चं बलं किंचिद्यच्चापि कृशदुर्बलम्।
तत्सङ्गृह्य ययौ राजा ये चापि परिचारकाः ।।
उपप्लाव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी ।
सह स्त्रीभिर्निनवृते दासीदाससमावृता ।।
कृत्वा मूलप्रतीकारं गुल्मैः स्थावरजङ्गमैः ।
स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः ।।
ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः।
स्तूयमाना ययू राजन्रथैर्मणिविभूषितैः।।
केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः ।
श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः ।।
हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलङ्कृताः।
राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम् ।।
जघनार्धे विराटश्च याज्ञसेनिश्च सौमकिः ।
सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः ।।
रथायुतानि चत्वारि हयाः पञ्चगुणास्तथा ।
पत्तिसैन्यं दशगुणं गजानामयुतानि षट् ।।
अनाधृष्टिश्चेकितानो धृष्टकेतुश्च सात्यकिः ।
परिवार्य ययुः सर्वे वासुदेवधनञ्जयौ ।।
आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः ।
पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव ।।
तेऽवगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिन्दमाः।
तथैव दध्मतुः शङ्खं वासुदेवधनञ्जयौ ।।
पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः ।
निशम्य सर्वसैन्यानि समहष्यन्त सर्वशः ।।
शङ्खदुन्दुभिसंहृष्टः सिंहनादस्तरस्विनाम् ।
पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत् ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि सैन्यनिर्याणपर्वणि
एकपञ्चाशदधिकशततमोऽध्यायः ।।