उद्योगपर्व
अध्यायः १४३
वैशंपायन उवाच।
केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम्।
अब्रवीदभिसंपूज्य कृष्णं तं मधुसूदनम् ।।
जानन्मां किं महाबाहो संमोहयितुमिच्छसि।
योयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः ।।
निमित्तं तत्र शकुनिरहं दुःशासनस्तथा।
दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत् ।।
असंशयमिदं कृष्ण महद्युद्धमुपस्थितम्।
पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् ।।
राजानो राजपुत्राश्च दुर्योधनवशानुगाः ।
रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् ।।
स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन।
निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः ।।
पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे ।
संसन्त इव वार्ष्णेय विविधा रोमहर्षणाः ।।
प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः ।
शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम् ।।
कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदन।
अनुराधां प्रार्थयते मैत्रं संगमयन्निव ।
नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् ।
विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः ।।
सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपैति च।
दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकंपनाः ।।
निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः ।
पानीयं यवसं चापि नाभिनन्दन्ति माधव ।।
प्रादुर्भूतेषु चैतेषु भयमाहुरुपास्थितम्।
निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् ।।
अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते।
वाजिनां वारणानां च मनुष्याणां च केशव ।।
धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन।
पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः ।।
प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते।
प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम् ।।
अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव ।
वाचश्चाप्यशरीरिण्यस्तकत्पराभवलक्षणम् ।।
मयूराः पुण्यशकुना हंससारसचातकाः ।
जीवञ्जीवकसङ्घाश्चाप्यनुगच्छन्ति पाण्डवान् ।।
गृध्राः कङ्का बकाः श्येना यातुधानास्तथा वृकाः ।
मक्षिकाणां च सङ्घाता अनुधावन्ति कौरवान् ।।
धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निःस्वनः ।
अनाहताः पाण्डवानां नदन्ति पटहाः किल ।।
उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा ।
धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम् ।।
मांसशोणितवर्षं च वृष्टं देवेन माधव ।
तथा गन्धर्वनगरं भानुमत्समुपस्थितम् ।।
सप्राकारं सपरिखं सवप्रं चारुतोरणम् ।
कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति ।।
उदयास्तमने संध्ये वेदयन्ती महद्भयम् ।
शिवा च वाशते घोरं तत्पराभवलक्षणम् ।।
एकपक्षाक्षिचरणाः पक्षिणो मधुसूदन ।
उत्सृजन्ति महद्धोरं तत्पराभवलक्षणम्।।
कृष्णग्रीवाश्च शकुना रक्तपादा भयानकाः ।
सन्ध्यामिमुखा यान्ति तत्पराभवलक्षणम् ।।
ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन ।
भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम् ।।
पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा ।
आमपात्रप्रतीकाशा पश्चिमा मधुसूदन।
उत्तरा शङ्खवर्णाभा दिशां वर्णा उदाहृताः ।।
प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव।
महद्भयं वेदयन्ति तस्मिन्नुत्पातदर्शने ।।
सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः।
अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत ।।
श्वेतोष्णीषाश्च दृश्यन्ते सर्वे वै शुक्लवाससः ।
आसनानि च शुभ्राणि सर्वेषामुपलक्षये ।।
तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला ।
आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन ।।
अस्थिसञ्चयमारूढश्चामितौजा यधिष्ठिरः ।
सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम् ।।
युधिष्ठिरो मया दृष्टो ग्रसमानो वसुन्धराम्।
उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः।
गदापाणिर्नरव्याघ्रो ग्रसन्निव महीमिमाम् ।।
क्षपयिष्यति नः सर्वान्स सुव्यक्तं महारणे।
विदितं मे हृषीकेश श्रिया परमया ज्वलन् ।।
पाण्डुरं गजमारूढो गाण्डीवी स धनञ्जयः।
त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन् ।।
यूयं सर्वे वधिष्यध्वं तत्र मे नास्ति संशयः।
पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान् ।।
नकुलः सहदेवश्च सात्यकिश्च महारथः ।
शुक्लकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः ।।
अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम् ।
त्रय एते मया दृष्टाः पाण्डुरच्छत्रवाससः ।।
श्वेतोष्णीषाश्च दृश्यन्ते त्रय एते जनार्दन ।
धार्तराष्ट्रेषु सैन्येषु तान्विजानीहि केशव ।।
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।
रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः ।।
उष्ट्रप्रयुक्तमारूढौ भीष्मद्रोणौ महारथौ ।
मया सार्धं महाबाहो धार्तराष्ट्रेण वा विभो ।।
अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन ।
अचिरेणैव कालेन प्राप्स्यामो यमसादनम् ।।
अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम् ।
गाण्डिवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः ।।
कृष्ण उवाच।
अपस्थितविनाशेयं नूनमद्य वसुंधरा।
यथा हि मे वचः कर्ण नोपैति हृदयं तव ।।
सर्वेषां तात भूतानां विनाशे प्रत्युपस्थिते।
अनयो नयसङ्काशो हृदयान्नापसर्पति ।।
कर्ण उवाच।
अपि त्वां कृष्ण पश्यामो जीवन्तोऽस्मान्महारणात्।
समुत्तीर्णा महाबाहो वीरक्षत्रविनाशनात् ।।
अथवा सङ्गमः कृष्ण स्वर्गे नो भविता ध्रुवम्।
तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ ।।
वैशंपायन उवाच।
इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम्।
विसर्जितः केशवेन रथोपस्थादवातरत् ।।
ततः स्वरथामस्थाय जाम्बूनदविभूषितम्।
महात्मा वै निववृते राधेयो दीनमानसः ।।
ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिः।
पुनरुच्चारयन्वाणीं याहि याहीति सारथिम् ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
त्रिचत्वारिंशदधिकशततमोध्यायः ।।