उद्योगपर्व

अध्यायः १४२

Udyoga Parva (Sanskrit) · Adhyaya 142
अक्षर का आकार

वैशंपायन उवाच।

कर्णस्य वचनं श्रुत्वा केशवः परवीरहा।
उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं यथा ।।

श्रीभगवानुवाच।

अपि त्वां न लभेत्कर्ण राज्यलम्भोपपादनम् ।
मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि ।।

ध्रुवो जयः पाण्डवानामितीदं
न संशयः कश्चन विद्यतेऽत्र।
जयध्वजो दृश्यते पाण्डवस्य
समुच्छ्रितो वानरराज उग्रः ।

दिव्या माया विहिता भौमनेन
समुच्छ्रिता इन्द्रकेतुप्रकाशाः ।
दिव्यानि भूतानि जयावहानि
दृश्यन्ति चैवात्र भयानकानि ।।

न सञ्जते शैलवनस्पतिभ्य
ऊर्ध्वं तिर्यग्योजनमात्ररूपः ।
श्रीमान्ध्वजः कर्ण धनञ्जयस्य
समुच्छ्रितः पावकतुल्यरूपः ।।

यदा द्रक्ष्यसि सङ्ग्रामे श्वेताश्वं कृष्णसारथिम् ।
ऐन्द्रमस्त्रं विकुर्वाणमुभे चाप्यग्निमारुते ।।

गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः।
न तदा भविता त्रेता न कृतं द्वापरं न च ।।

यदा द्रक्ष्यसि सङ्ग्रामे कुन्तीपुत्रं युधिष्ठिरम् ।
जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम् ।।

आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् ।
न तदा भविता त्रेता न कृतं द्वापरं न च ।।

यदा द्रक्ष्यसि सङ्ग्रामे भीमसेनं महाबलम् ।
दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे ।।

प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् ।
न तदा भविता त्रेता न कृतं द्वापरं न च ।।

यदा द्रक्ष्यसि सङ्ग्रामे द्रोणं शान्तनवं कृपम् ।
सुयोधनंच राजानं सैन्धवं च जयद्रथम् ।।

युद्धायापततस्तूर्णं वारितान्सव्यसाचिना।
न तदा भविता त्रेता न कृतं द्वापरं न च ।।

यदा द्रक्ष्यसि सङ्‌ग्रामे माद्रीपुत्रौ महाबलौ ।
वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव ।।

विगाढे शस्त्रसंपाते परवीररथारुजौ ।
न तदा भविता त्रेता न कृतं द्वापरं न च ।।

ब्रूयाः कर्ण इतो गत्वा द्रोणं शान्तनवं कृपम् ।
सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः ।।

सर्वौषधिवनस्फीतः फलवानल्पमक्षिकः ।
निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः ।।

सप्तमाच्चापि दिवसादमावास्या भविष्यति।
सङ्ग्रामो युज्यतां तस्यां तामाहुः शक्रदेवताम् ।।

तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताः।
यद्वो मनीषितं तद्वै सर्वं संपादयाम्यहम् ।।

राजानो राजपुत्राश्च दुर्योधनवशानुगाः ।
प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम् ।।