उद्योगपर्व

अध्यायः १४४

Udyoga Parva (Sanskrit) · Adhyaya 144
अक्षर का आकार

वैशंपायन उवाच।

असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान्गते।
अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत् ।।

जानासि मे जीवपुत्री भावं नित्यमविग्रहे ।
क्रोशतो नच गृह्णीते वचनं मे सुयोधनः ।।

उपपन्नो ह्यसौ राजा चेदिपाञ्चालकेकयैः ।
भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि ।।

उपप्लाव्ये निविष्टोऽपि धर्ममेव युधिष्ठिरः।
काङ्क्षते ज्ञातिसौहार्दाद्बलवान्दुर्बलो यथा।।

राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति।
मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते ।।

जयद्रथस्य कर्णस्य तथा दुःशासनस्य च।
सौबलस्य च दुर्बुद्ध्या मिथो भेदः प्रपत्स्यते ।

अधर्मेम हि धर्मिष्ठं ह्रियते राज्यमीदृशम्।
येषां तेषामयं धर्मः सानुबन्धो भविष्यति ।।

क्रियमाणे बलाद्धर्मे कुरुभिः को न संज्वरेत्।
असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः ।।

ततः कुरूणामनयो भविता वीरनाशनः।
चिन्तयन्न लभे निद्रामहःसु च निशासु च।।

श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम्।
सा निःश्वसन्ती दुःखार्ता मनसा विममर्श ह ।।

धिगस्त्वर्थं यत्कृतेयं सुमहाञ्ज्ञातिसंक्षयः।
वर्त्स्यते सुहृदां चैव युद्धेऽस्मिन्वै पराभवः ।।

पाण्डवाश्चेदिपञ्चाला यादवाश्च समागताः।
भारतैः सह योत्स्यन्ति किं नु दुःखमतःपरम्।।

पश्ये दोषं ध्रुवं युद्धे तथाऽयुद्धे पराभवम् ।
अधनस्य मृतं श्रेयो न हि ज्ञातिक्षयो जयः।
इति मे चिन्तयन्त्या वै हृदि दुःखं प्रवर्तते ।।

पितामहः शान्तनव आचार्यश्च युधां पतिः।
कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम ।।

नाचार्यः कामवाञ्शिष्यैद्रौणोयुद्ध्येत जातुचित्।
पाण्डवेषु कथं हार्दं कुर्यान्न च पितामहः ।

अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः।
मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान् ।।

महत्यनर्थे निर्बन्धी बलवांश्च विशेषतः।
कर्णः सदा पाण्डवानां तन्मे दहति संप्रति ।।

आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान्प्रति ।
ग्रसादयितुमासाद्य दर्शयन्ती यथातथम् ।।

तोषितो भगवान्यत्र दुर्वासा मे वरं ददौ ।
आह्वानं मन्त्रसंयुक्तं वसन्त्याः पितृवेश्मनि ।।

साहमन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता ।
चिन्तयन्ती बहुविधं हृदयेन विदूयता ।।

बलाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम् ।
स्त्रीभावाद्बालभावाच्च चिन्तयन्ती पुनः पुनः ।।

धात्र्या विस्रब्धया गुप्ता सखीजनवृता तदा।
दोषं परिहरन्ती च पितुश्चारित्र्यरक्षिणी ।।

कथं नु सुकृतं मे स्यान्नापराधवती कथम्।
भवेयमिति संचिन्त्य ब्राह्मणं तं नमस्य च ।।

कौतूहलात्तु तं लब्धा बालिश्यादाचरं तदा।
कन्या सती देवमर्कमासादयमहं ततः ।।

योऽसौ कानीनगर्भो मे पुत्रवत्परिरक्षितः ।
कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा ।।

इति कुन्ती विनिश्चित्य कार्यनिश्चयमुत्तमम् ।
कार्यार्थमभिनिश्चित्य ययौ भागीरथीं प्रति।।

आत्मजस्य ततस्तस्य घृणिनः सत्यसङ्गिनः ।
गङ्गातीरे पृथापश्यञ्जपस्थानमनुत्तमम् ।।

प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः।
जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी ।।

अतिष्ठत्सूर्यतापार्ता कर्णस्योत्तरवाससि।
कौरव्यपत्नी वार्ष्णेयी मद्ममालेव शुष्यती ।।

आपृष्ठतापाञ्जप्त्वा स परिवृत्त्य यतव्रतः ।
दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः ।।

यथान्यायं महातेजा मानी धर्मभृतां वरः ।
उत्स्मयन्प्रणतः प्राह कुन्तीं वैकर्तनो वृषः ।।

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
चतुश्चत्वारिंशदधिकशततमोऽध्यायः ।।