उद्योगपर्व

अध्यायः १४

Udyoga Parva (Sanskrit) · Adhyaya 14
अक्षर का आकार

शल्य उवाच।

अथैनां रूपिणी साध्वीमुपातिष्ठदुपश्रुतिः।
तां वयोरूपसंपन्नां दृष्ट्वा देवीमुपस्थिताम् ।।

इन्द्राणी संप्रहृष्टात्मा संपूज्यैनामथाब्रवीत्।
इच्छामि त्वामहं ज्ञातुं का त्वं ब्रूहि वरानने ।।

उपश्रुतिरुवाच।

उपश्रुतिरहं देवि तवान्तिकमुपागता।
दर्शनं चैव संप्राप्ता तव सत्येन भामिनि ।।

पतिव्रता च युक्ता च यमेन नियमेन च।
दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम् ।।

क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम्।
ततस्तां प्रस्थितां देवीमिन्द्राणी सा समन्वगात् ।।

देवारण्यान्यतिक्रम्य पर्वतांश्च बहूंस्ततः ।
हिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत्।।

समुद्रं च समासाद्य बहुयोजनविस्तृतम्।
आससाद महाद्वीपं नानाद्रुमलतावृतम् ।।

तत्रापश्यत्सरो दिव्यं नानाशकुनिभिर्वृतम्।
शतयोजनविस्तीर्णं तावदेवायतं शुभम् ।।

तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत ।
षट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः।।

सरसस्तस्य मध्ये तु पद्मिनी महती शुभा ।
गौरेणोन्नतनालेन पद्मेन महता वृता ।।

पद्मस्य भित्त्वा नालं च विवेश सहिता तया।
बिसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम् ।।

तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम् ।
सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश्च सा।।

इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः।
स्तूयमानस्ततो देवः शचीमाह पुरन्दरः ।।

किमर्थमसि संप्राप्ता विज्ञातश्च कथं त्वहम्।
ततः सा कथयामास नहुषस्य विचेष्टितम् ।।

इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यसमन्वितः ।
दर्पाविष्टश्च दुष्टात्मा मामुवाच शतक्रतो ।।

उपतिष्ठेति स क्रूरः कालं च कृतवान्मम ।
यदि न त्रास्यसि विभो करिष्यति स मां वशे ।।

एतेन चाहं संप्राप्ता द्रुतं शक्र तवान्तिकम्।
जहि रौद्रं महाबाहो नहुषं पापनिश्चयम् ।।

प्रकाशयस्व चात्मानं दैत्यदानवसूदन।
तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
सेनोद्योगपर्वणि चतुर्दशोऽध्यायः ।।