उद्योगपर्व
अध्यायः १५
शल्य उवाच।
एवमुक्तः स भगवाञ्शच्या तां पुनरब्रवीत्।
विक्रमस्य न कालोऽयं नहुषो बलवत्तरः ।।
विवर्द्धितश्च ऋषिभिर्हव्यकव्यैश्च भामिनि ।
नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि ।।
गुह्यं चैतत्त्वया कार्यं नाख्यातव्यं शुभे क्वचित् ।
गत्वा नहुषमेकान्ते ब्रवीहि च सुमध्यमे ।।
ऋषियानेन दिव्येन मामुपैहि जगत्पते ।
एवं तव वशे प्रीता भविष्यामीति तं वद ।।
इत्युक्ता देवराजेन पत्नी सा कमलेक्षणा ।
एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति ।।
नहुषस्तां ततो दृष्ट्वा सस्मितो वाक्यमब्रवीत् ।
स्वागतं ते वरारोहे किं करोमि शुचिस्मिते ।।
भक्तं मां भज कल्याणि किमिच्छसि मनस्विनि ।
तव कल्याणि यत्कार्यं तत्करिष्ये सुमध्यमे ।।
न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वसेः।
सत्येन वै पशे देवि करिष्ये वचनं तव ।।
इन्द्राण्युवाच।
यो मे कृतस्त्वया कालस्तमाकाङ्क्षे जगत्पते।
ततस्त्वमेव भर्ता मे भविष्यसि सुराधिम ।।
कार्यं च हृदि मे यत्तद्देवराजावधारय।
वक्ष्यामि यदि मे राजन्प्रियमेतत्करिष्यसि ।।
वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव।
इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा ।।
इच्छाम्यहमथापूर्वं वाहनं ते सुराधिप ।
यन्न विष्णोर्न रुद्रस्य न सुराणां न रक्षसाम् ।।
वहन्तु त्वां महाभागा ऋषयः सङ्गता विभो।
सर्वे शिबिकया राजन्नेतद्धि मम रोचते ।।
नासुरेषु न देवेषु तुल्यो भवितुमर्हसि ।
सर्वेषां तेज आदत्से स्वेन वीर्येण दर्शनात् ।।
न ते प्रमुखतः स्थातुं कश्चिच्छक्नोति वीर्यवान् ।
शल्य उवाच।
एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल।
उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम् ।।
नहुष उवाच।
अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि।
दृढं मे रुचिरं देवि त्वद्वशोऽस्मि वरानने ।।
न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् ।
अहं तपस्वी बलवान्भूतभव्यभवत्प्रभुः ।।
मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम्।
देवदानवगन्धर्वाः किन्नरोरगराक्षसाः ।।
न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते।
चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम् ।।
` अहमिन्द्रोऽस्मि देवानां लोकानां च महेश्वरः।
मयि हव्यं च कव्यं च लोकाश्चैव सनातनाः ।'
तस्मात्ते वचनं देवि करिष्यामि न संशयः ।।
सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा ।
पश्य माहात्म्ययोगं मे ऋद्धिं च वरवर्णिनि ।।
शल्य उवाच।
एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम् ।
` अथ संचिन्त्य नहुषो बलवीर्येण भारत ।।
विसृज्य सुप्रतीकं च नागमैरावतं तथा।
हंसयुक्तं विमानं च हरियुक्तं तथा रथम् ।।
स तु दर्पेण महता परिभूय महामुनीन्।'
विमाने योजयित्वा च ऋषीन्नियमामास्थितान् ।।
अब्रह्मण्यो बलोपेतो मत्तो मदबलेन च।
कामवृत्तः स दुष्टात्मा वाहयामास तानृषीन् ।।
नहुषेण विसृष्टा च बृहस्पतिमथाब्रवीत्।
समयोऽल्पावशेषो मे नहुषेणेह यः कृतः ।।
शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम्।
बाढमित्येव भगवान्बृहस्पतिरुवाच ताम् ।।
न भेतव्यं त्वया देवि नहुषाद्दुष्टचेतसः ।
न ह्येष स्थास्यति चिरं गत एष नराधमः ।।
अधर्मज्ञो महर्षीणां वाहनाच्च हतः शुभे ।
इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः ।।
शक्रं चाधिगमिष्यामि माभैस्त्वं भद्रमस्तु ते।
ततः प्रज्वाल्य विधिवज्जुहाव परमं हविः ।।
बृहस्पतिर्महातेजा देवराजोपलब्धये।
हुत्वाऽग्निं सोब्रवीद्राजञ्छक्र अन्विष्यतामिति ।।
तस्माच्च भगवान्देवः स्वयमेव हुताशनः ।
स्त्रीवेषमद्भुतं कृत्वा तत्रैवान्तरधीयत।।
स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च।
पृथिवीं चान्तरिक्षं च विचित्याथ मनोगतिः।
निमेषान्तरमात्रेण बृहस्पतिमुपागमत् ।।
अग्निरुवाच।
बृहस्पते न पश्यामि देवराजमिह क्वचित्।
आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम् ।।
न मे तत्र गतिर्ब्रह्मन्किमन्यत्करवाणि ते।
तमब्रवीद्देवगुरुरपो विश महाद्युते ।।
अग्निरुवाच।
नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति।
शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेस्तु महाद्युते ।।
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
सेनोद्योगपर्वणि पञ्चदशोऽध्यायः ।।