उद्योगपर्व

अध्यायः १३

Udyoga Parva (Sanskrit) · Adhyaya 13
अक्षर का आकार

शल्य उवाच।

अथ तामब्रवीद्दृष्ट्वा नहुषो देवराट् तदा।
त्रयाणामपि लोकानामहमिन्द्रः शुचिस्मिते ।।

भजस्व मां वरारोहे पतित्वे वरवर्णिनि।
एवमुक्ता तु सा देवी नहुषेण पतिव्रता ।।

प्रावेपत भयोद्विग्ना प्रवाते कदली यथा।
प्रणम्य सा हि ब्रह्माणं शिरसा तु कृताञ्जलिः ।।

देवराजमथोवाच नहुषं घोरदर्शनम् ।
कालमिच्छाम्यहं लब्धुं त्वत्तः कंचित्सुरेश्वर ।।

न हि विज्ञायते शक्रः किं वा प्राप्तः क्व वा गतः।
तत्त्वमेतत्तु विज्ञाय यदि न ज्ञायते प्रभो ।।

ततोऽहं त्वामुपस्थास्ये सत्यमेतद्ब्रवीमि ते।
एवमुक्तः स इन्द्राण्या नहुषः प्रीतिमानभूत् ।।

नहुष उवाच।

एवं भवतु सुश्रोणि यथा मामिह भाषसे।
ज्ञात्वा चागमनं कार्यं सत्यमेतदनुस्मरेः ।।

नहुषेण विसृष्टा च निश्चक्राम ततः शुभा।
बृहस्पतिनिकेतं च सा जगाम यशस्विनी ।।

तस्याः संश्रुत्य च वचो देवाश्चाग्निपुरोगमाः ।
चिन्तयामासुरेकाग्राः शक्रार्थं राजसत्तम ।।

देवदेवेन शङ्गम्य विष्णुना प्रभविष्णुना।
ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः ।।

ब्रह्मवध्याभिभूतो वै शक्रः सुरगणेश्वरः ।
गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः ।।

रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्।
त्वद्वीर्यनिहते वृत्रे वासवो ब्रह्महत्यया ।।

वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिश।
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ।।

मामेव यजतां शक्रः पावयिष्यामि वज्रिणम्।
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ।।

पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः।
स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः ।।

किंचित्कालमिदं देवा मर्षयध्वमतन्द्रिताः।
श्रुत्वा विष्णोः शुभां सत्यां वाणीं ताममृतोपमाम्।

ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ।
यत्र शक्रो भयोद्विग्नस्तं देशमुपचक्रमुः ।।

तत्राश्वमेधः सुमहान्महेन्द्रस्य महात्मनः ।
ववृते पावनार्थं वै ब्रह्महत्यापहो नृप ।।

विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च।
पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर ।।

संविभज्य च भूतेषु विसृज्य च सुरेश्वरः।
विज्वरो धूतपाप्मा च वासवोऽभवदात्मवान् ।।

अकम्प्यं नहुषं स्थानाद्दृष्ट्वा बलनिषूदनः।
तेजोघ्नं सर्वभूतानां वरदानाच्च दुःसहम्।।

ततः शचीपतिर्देवः पुनरेव व्यनश्यत।
अदृश्यः सर्वभूतानां कालाकाङ्क्षी चचार ह ।।

प्रनष्टे तु ततः शक्रे शची शोकसमन्विता ।
हा शक्रेति तदा देवी विललाप सुदुःखिता ।।

यदि दत्तं यदि हुतं गुरवस्तोषिता यदि।
एकभर्तृत्वमेवास्तु सत्यं यद्यस्ति वा मयि ।।

पुण्यां चेमामहं दिव्यां प्रवृत्तामुत्तरायणे।
देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः ।।

प्रयता च निशां देवीमुपातिष्ठत तत्र सा।
पतिव्रतात्वात्सत्येन सोपश्रुतिमथाकरोत् ।।

यत्रास्ते देवराजोऽसौ तं देशं दर्शयस्व मे।
इत्याहोपश्रुतिं देवीं सत्यं सत्येन दृश्यताम् ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
सेनोद्योगपर्वणि त्रयोदशोऽध्यायः ।।